॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
आश्वलायनवंशस्थो ब्राह्मणः सुरुचिः पुरा ।
नाम्ना स्वधर्मनिष्ठः स ब्रह्मज्ञानपरोऽभवत् ॥ १ ॥
नानायोगक्रमे सक्तः शमी दमपरायणः ।
चचार योगचर्यां तामंते सहजगोऽभवत् ॥ २ ॥
तत्र स्वाधीनतां दृष्ट्वा विस्मितः प्रययौ स्वयम् ।
स्वगुरुं तं प्रणम्याऽऽदौ योगं पप्रच्छ उत्तमम् ॥ ३ ॥
सुरुचिरुवाच ।
वद योगं महायोगिन् शांतिदं सर्वभावतः ।
अस्माकं त्वं परा काष्ठा गुरुर्वंशधरः प्रभुः ॥ ४ ॥
आश्वलायन उवाच ।
पैलेन कथितो योगो मह्यं शांतिप्रदः परः ।
तं तेऽहं कथयिष्यामि ब्रह्मीभूतप्रदायकम् ॥ ५ ॥
चित्तं पंचविधं त्यक्त्वाऽहं ब्रह्मेति प्रबोधतः ।
सरसं तेन शांतिस्थो भविष्यसि न संशयः ॥ ६ ॥
सरसं चित्तकं यस्मात् संभूतं यन्मयं मतम् ।
अंते यत्र गतं तत्त्वं गजं जानीहि मानद ॥ ७ ॥
तदेवाननकं यस्य तं भजस्व विधानतः ।
गजाननं सुशांतिस्थो भविष्यस्यधुना मुने ॥ ८ ॥
एवमुक्त्वा महाविप्र आश्वलायन आदरात् ।
तूष्णीं स्थितः स तं नत्वा ययौ स्वस्याश्रमं पुनः ॥ ९ ॥
गजाननपरो भूत्वाऽभजत्तं नित्यमादरात् ।
गजाननचरित्रं सोऽपठन् मौद्गलसंस्थितम् ॥ १० ॥
तेन तुष्टो गणाधीशो ददौ योगं प्रशांतिदम् ।
भक्ताय वै सुरुचये भक्तवाञ्छाप्रपूरकः ॥ ११ ॥
ततस्तेन रहस्यं यच्चतुर्वेदसमुद्भवम् ।
ज्ञातं गजाननाख्ये तत् संस्थितं ब्रह्मणोदितम् ॥ १२ ॥
गच्छंति यत्र सर्वाणि विश्वानि ब्रह्मकाणि तु ।
योगरूपेण यस्तेषु स गच्छति ?ग उच्यते ॥ १३ ॥
सर्वगं ब्रह्म सत्प्रोक्तमृग्वेदे सारगं परम् ।
तदेव गश्च विज्ञेयो मुने नाम्नि गजानने ॥ १४ ॥
जायंते विविधान्येव विश्वानि ब्रह्मकाणि च ।
तस्माददः स जः ख्यातोऽद्वितीयात्मक एककः ॥ १५ ॥
आदिमध्यांतभावेषु यादृशं तादृशं भवेत् ।
यजुषि ब्रह्म संप्रोक्तं स्मृतोऽजः स गजानने ॥ १६ ॥
पंचचित्तमयं सर्वं नाशवन्नात्र संशयः ।
नष्टं नकारगं विद्ध्याऽऽसमंतादा च तत्र वै ॥ १७ ॥
नष्टभावेषु यस्तिष्ठेदासमंतात्तदेव तत् ।
ब्रह्म साम्ना समाख्यातं स्थित आनो गजानने ॥ १८ ॥
पंचचित्तमयं सर्वं नष्टं ज्ञातव्यमंजसा ।
तदेव योगभावेन ब्रह्मरूपं प्रकीर्तितम् ॥ १९ ॥
अथर्वणसमाख्यातमहमात्मा न संशयः ।
अज्ञानेन विनाशाख्यो न स्मृतः स गजानने ॥ २० ॥
एतद् ब्रह्ममुखेभ्यश्च चतुर्भ्यः सारमीरितम् ।
गजाननो महाविप्र चतुर्वेदात्मकः स्मृतः ॥ २१ ॥
एवं गजाननं ज्ञात्वाऽभजत्तं सुरुचिः सदा ।
अपठत्तस्य माहात्म्यं तत्र चित्रं बभूव ह ॥ २२ ॥
कपोतो वृक्षसंस्थः कः तत् शुश्राव चरित्रकम् ।
स रोगसंयुतः पापी रोगहीनो बभूव ह ॥ २३ ॥
अंते गजाननं गत्वा ब्रह्मीभूतोऽभवन् मुदा ।
अज्ञानश्रवणेनैवाऽतः फलं किं वदामि ते ॥ २४ ॥
एवं नाना जना खंड यद्गजानननामकम् ।
श्रुत्वा पठित्वा भुक्त्वांते भोगान् ब्रह्म प्रलेभिरे ॥ २५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुगलसंवादे
गजाननचरितश्रवणपठनमाहात्म्यवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥