॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
शुचिः स्वधर्मनिष्ठः स एकभुक्तपरायणः ।
ब्रह्मचर्यसमायुक्तो रात्रौ सुप्यात्तथा भुवि ॥ १ ॥
अनृतादिकमेवं संत्यजेत् सर्वं समाहितः ।
हविष्यान्नं च भुक्त्वा तु शृणुयादिदमुत्तमम् ॥ २ ॥
गणेशसन्निधाने वै वने वा स्वगृहे स्थितः ।
शृणुयान् मौद्गलं पूर्णं योगभक्तिपरायणः ॥ ३ ॥
अथवा कामनायुक्तो निःकामो वा भवेन्नरः ।
शृणुयान्नियमे संस्थः स सद्यश्च फलं लभेत् ॥ ४ ॥
यत्र वक्ता भवेदस्य तत्र गत्वा महामतिः ।
शृणुयादथवा विप्र पुराणमिदमुत्तमम् ॥ ५ ॥
ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा शृणुयादिदम् ।
शूद्रश्चेत् ब्राह्मणं कंचित् पुरस्कृत्य समाहितः ॥ ६ ॥
भाद्रशुक्लप्रतिपदमारभ्य च चतुर्दिनम् ।
पारायणं मौद्गलस्य श्रोतव्यं तैरुपोषितैः ॥ ७ ॥
माघसंज्ञे तथा मासे तथा ज्येष्ठे प्रकीर्तितम् ।
पारायणं मौद्गलस्य श्रोतव्यं सर्वसिद्धये ॥ ८ ॥
अथवा भाद्रमासस्य प्रतिपत्तः समारभेत् ।
आश्विन्यां पूर्णिमायां तत् पुराणं च समापयेत् ॥ ९ ॥
एवं माघे तया ज्येष्ठे सार्धमासैकमानतः ।
श्रोतव्यं मौद्गलं पूर्णं सर्वभावपरायणैः ॥ १० ॥
अथवा भाद्रमासे च प्रतिपत्तः समारभेत् ।
पुराणं मौद्गलं विप्र शृणुयाद्वर्षमात्रतः ॥ ११ ॥
पुनर्भाद्रपदं प्राप्य चैकभुक्तपरायणः ।
प्रतिपद्यां निराहारो भवेद्यावच्चतुर्थिका ॥ १२ ॥
पंचम्यां मौद्गलं पूर्णं समापयतु तन्नरः ।
एवं श्रुत्वा फलं सद्यो लभेदीप्सितमंजसा ॥ १३ ॥
विधिं तत्र प्रवक्ष्यामि मंडपं कारयेन्नरः ।
तोरणादिसमायुक्तं नानाशोभासमन्वितम् ॥ १४ ॥
आदौ गणेश्वरं तत्र पूजयेत् पुस्तकं ततः ।
ततो मुद्गलविप्रेंद्रं शुकं योगविशारदम् ॥ १५ ॥
पठते मौद्गलं तत्र संस्थितौ शुकमुद्गलौ ।
ततः पौराणिकं शांतं पूजयेद्भावसंयुतः ॥ १६ ॥
ततः श्रोतृगणान् पूज्य प्रार्थयेत् स्नेहसंयुतः ।
पौराणिकं ततः पुण्यं शृणुयादिदमुत्तमम् ॥ १७ ॥
अर्थेन संयुतं सर्वं मौद्गलं शृणुयान्नरः ।
सर्वार्थनिपुणस्तेन सर्वसिद्धियुतो भवेत् ॥ १८ ॥
यदा चतुर्दिनैः श्राव्यं तदार्थपरिवर्जितम् ।
पारायणं समाख्यातं सर्वसिद्धिप्रदायकम् ॥ १९ ॥
नित्यमुत्सवसंयुक्तो भवेद्धर्मपरायणः ।
नानादानरतो भूत्वा ब्राह्मणादींश्च भोजयेत् ॥ २० ॥
गणेशप्रीतये सर्वं कुर्याद्धीमान्निरंतरम् ।
विदित्वा धन्यमात्मानं शृणुयादिदमुत्तमम् ॥ २१ ॥
अंते गणेश्वरं सोऽपि पुराणं पूजयेत् परैः ।
राजोपचारकाद्यैस्तु भक्तिभावसमन्वितः ॥ २२ ॥
ततः पौराणिकं पूज्य तोषयेत्तं धनादिभिः ।
रत्नाद्यैर्हर्षसंयुक्तः प्रार्थयेन्नम्रकंधरः ॥ २३ ॥
तारितोऽहं त्वया नाथ पुराणश्रावकेन वै ।
अधुना कृतकृत्योऽहं जातस्ते पाददर्शनात् ॥ २४ ॥
एवं प्रार्थ्य नमस्कृत्य ततः सर्वान् समागतान् ।
दक्षिणाद्यैः समातोष्य ततस्तं स विसर्जयेत् ॥ २५ ॥
पौराणिकं ततो भूयः समानीय महायशाः ।

Pageखं. ९ अ. २० पान ६३
श्रोतॄनन्यान् द्विजादींश्च भोजयेन् मोदकादिभिः ॥ २६ ॥
ततस्तान् स नमस्कृत्य पारणं यः समाचरेत् ।
एवमीप्सितकं प्राप्येहांते ब्रह्ममयो भवेत् ॥ २७ ॥
अथवा मौद्गलं विप्र शृणुयान्नित्यमादरात् ।
यथेच्छया समायुक्तः स्वेच्छाभोजनकारकः ॥ २८ ॥
ब्रह्मचर्यादिहीनः स भक्तिभावसमन्वितः ।
गणेशप्रीतये हर्षात् सर्वसिद्धिं लभेत् पराम् ॥ २९ ॥
अकिंचनोऽपि विप्रेश शृणुयाद्भक्तिसंयुतः ।
यथाशक्तिविधानेन स पूजादिकमाचरेत् ॥ ३० ॥
शमीमंदारदूर्वाद्यैरथवा यः समर्चयेत् ।
फलं सर्वं लभेत् सोऽपि पूजादानादिजं परम् ॥ ३१ ॥
यादृशो विभवः स्वस्य तादृशं स समाचरेत् ।
तेन विघ्नेश्वरः प्रीतो भवेत् सर्वप्रदायकः ॥ ३२ ॥
श्लोकार्धं श्लोकपादं वा पदं श्लोकस्थमेव वा ।
शृणुयान्मौद्गलस्यापि स धन्यो नात्र संशयः ॥ ३३ ॥
किं पुनः श्रद्धया युक्तः पुराणं शृणुयात् परम् ।
संपूर्णं तस्य विप्रेश सफलं जननं भवेत् ॥ ३४ ॥
नित्यं यः शृणुयाद्भक्त्या सर्वमाप्य स विप्रप ।
दर्शनात् सर्वजंतूनां तारको भवति प्रभुः ॥ ३५ ॥
यथा गणेश्वरो देवस्तथाऽसौ नात्र संशयः ।
ब्रह्मीभूत इव प्राज्ञस्तिष्ठेद्वै भूमिमंडले ॥ ३६ ॥
एतत्ते सर्वमाख्यातं सविधिश्रवणं परम् ।
पठनं तु पुराणस्य मौद्गलस्य समासतः ॥ ३७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खंडे योगचरिते योगामृतार्थशास्त्रे पुराणश्रवणादिविधिवर्णनं
नाम एकोनविंशोऽध्यायः ॥