गणेशस्वरूपवर्णनम्
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
धन्योऽसि सूत सर्वेभ्यो भवान् ज्ञानाधिको मतः ।
?समस्त्रिभुवने नैव संशयानां विनाशकः ॥ १ ॥
सर्वसंशयहीनोऽहं धन्यश्चाद्य त्वया कृतः ।
अधुना कृतकृत्यश्च जातो मुनिसमन्वितः ॥ २ ॥
न मुद्गलसमं किंचिन् मया ज्ञातं परात्परम् ।
तेनोक्तं मौद्गलं सूत मुद्गलेन सदृक् परम् ॥ ३ ॥
वेदशास्त्रपुराणानां नानामतनिकृंतनम् ।
मौद्गलं मुद्गलाकारं सर्वसारप्रकाशकम् ॥ ४ ॥
त्र्यैलोक्ये मुद्गलो योगी मान्यः सर्वैः प्रकीर्तितः ।
सर्वाभिमानहीनत्वाद्यथार्थकरणात् किल ॥ ५ ॥
मुद्गलेन कृतं यद्वै पुराणं ?मुद्गलाकृति ।
तस्यापमानभावेन नारकी जायते नरः ॥ ६ ॥
यामा मुद्गरहस्तास्तं मारयिष्यंति निश्चितम् ।
न वक्ता कुत्र योगींद्रो मुद्गलेन सदृक् भवेत् ॥ ७ ॥
न भूतो नाधुना कुत्र वर्तते सूत निश्चितम् ।
निरंहकारसंयुक्तं भाषणं मुद्गलस्य च ॥ ८ ॥
पुराणानि च सर्वाणि स्वस्वब्रह्मपराणि वै ।
अभिमानेन संगोप्य स्वदोषं प्रवदंति हि ॥ ९ ॥
यथार्थभाषणं सर्वं पुराणानां न संशयः ।
मुनीनां देवतादीनां स्थितस्तत्राप्यहं किल ॥ १० ॥
तेन भिन्नमतादीनां प्रकाशस्तेषु जायते ।
मौद्गलं सर्वमान्यं वै निरहंकारभावतः ॥ ११ ॥
अभिमानो महाघोरो ह्यजेयो देवयोगिभिः ।
मुद्गलेन समाचूर्ण्य कृतो जीवविवर्जितः ॥ १२ ॥
अतोऽयं मुद्गलः प्रोक्त एक एव महर्षिभिः ।
तत्र चित्रं न वै सूत सर्वमान्यं वदेत् परम् ॥ १३ ॥
अहो गणेशहस्तस्थो मुद्गलः पतितो भुवि ।
नराकारस्वरूपेणांगिरसेन प्रपालितः ॥ १४ ॥
स एव मुद्गलो योगी योगरूपप्रकाशकः ।
तत्र किं चित्रकं मन्येऽभिमानैर्वर्जितात्मकम् ॥ १५ ॥
मुद्गलस्य च दक्षस्य संवादेन युतं परम् ।
पुराणं चांगिरःप्रोक्तं श्रुतं शांतिप्रदं मया ॥ १६ ॥
अधुना वद सूत त्वं पुराणस्य प्रविस्तरात् ।
Pageखं. ९ अ. १८ पान ५९
माहात्म्यं श्रवणं चास्य कीदृशं क्रियते जनैः ॥ १७ ॥
विधिना केन कर्तव्यं श्रवणं कैः पुरा कृतम् ।
के के सिद्धियुता जाताः श्रवणादस्य मानद ॥ १८ ॥
पारायणं पुराणस्य कर्तव्यं कीदृशैः परम् ।
श्रवणं भिन्नखंडस्य कैः कृतं तद्वदस्व मे ॥ १९ ॥
गणेशस्य पुराणानि चत्वारि कथितानि तु ।
तेषां श्रवणमात्रेण फलं किं नु लभेत् समम् ॥ २० ॥
अथवा भिन्नभावाख्यं फलं भवति तद्वद ।
येन संशयहीना वै भजिष्यामो गजाननम् ॥ २१ ॥
सूत उवाच ।
एकविंशतिभेदैः स गणेशो ब्रह्मनायकः ।
क्रीडति प्रणवाकारो ब्रह्मांडस्थे पुराणके ॥ २२ ॥
ब्राह्मे द्वादशभेदैः स क्रीडते बुद्धिचालकः ।
निर्गुणः सगुणाधारः प्रणवस्य प्रचालकः ॥ २३ ॥
गाणेशे मूर्तिमान् मुख्यः क्रीडति द्वंद्वभावतः ।
बुद्धिस्थः प्रणवस्थः स तयोर्योगात्मका कृतिः ॥ २४ ॥
प्रणवात्मकभावस्योपासनाकांड उच्यते ।
हृदि खेलकरस्यैव क्रीडाकांडः प्रकीर्तितः ॥ २५ ॥
मौद्गलेऽष्टविधः सोऽपि वर्णितो योगधारकः ।
संयोगायोगयोर्योगाकारः पूर्णः सुशांतिगः ॥ २६ ॥
तेषां फलं प्रवक्ष्यामि गणेशज्ञानकारकम् ।
तच्छ्रुत्वा मुनयः सर्वे संशयेन विवर्जिताः ॥ २७ ॥
त्रिगुणमयकायाश्च देवाः पंच प्रकीर्तिताः ।
ब्रह्मा विष्णुः शिवः सूर्यः शक्तिः सर्वत्र पठ्यते ॥ २८ ॥
अपूज्यो विधिरेके तु वदंते शास्त्रसंमतौ ।
मध्यस्था ये नरा विप्र ब्रह्मणो लोकगामिनः ॥ २९ ॥
चतुर्णां भजने सक्ताः शिवादीनां नरादयः ।
ये ते तेषां तु लोकेषु भक्त्या गच्छंति संयुताः ॥ ३० ॥
सगुणोपासका येऽत्र शिवादीनां गुणात्मनाम् ।
ते तेषां लोकमासाद्य भुं?जते भोगकान् परान् ॥ ३१ ॥
पुनः पतंति भूमौ ते जन्म भाग्यसमन्विताः ।
भवंति कृपया तेषां प्रणवे रुचिसंयुताः ॥ ३२ ॥
ततस्ते प्रणवाकारं भजंते गणराजकम् ।
ब्रह्मप्राप्त्यर्थमानंदाद्यत्नवंतो न संशयः ॥ ३३ ॥
ततस्तत्कृपया युक्ता भवंति ज्ञानसंयुताः ।
त्यक्त्वा प्रणवसंस्थं ते भजंते बुद्धिधारकम् ॥ ३४ ॥
हृदि बुद्धिपतिं पूर्णं भजंते यत्नसंयुताः ।
शमे दमे परा नित्यं नानाभावैर्विवर्जितम् ॥ ३५ ॥
बुद्धिस्थं तं समाराध्य तत्कृपायुक्तचेतसः ।
भजंते गणनाथं वै शुंडादंडविराजितम् ॥ ३६ ॥
एकनिष्ठस्वभावेन तत्परा नित्यमादरात् ।
योगप्राप्त्यर्थमानंदाच्छमदमपरायणाः ॥ ३७ ॥
गणेशोपासनायुक्ता मंत्रध्यानपरायणाः ।
गाणपत्याभिमानस्य धारकाः संभवंति ते ॥ ३८ ॥
न गणेशात् परं भावं मानयंति कदाचन ।
वेदशास्त्रपुराणेषु विचार्य मनुजोत्तमाः ॥ ३९ ॥
ततस्तस्य कृपायोगान् मौद्गलस्थं भजंति ते ।
योगशांतिपरा भूत्वा योगीशाः संभवंति वै ॥ ४० ॥
एवं क्रमेण विप्रेंद्र भवंति गणपप्रियाः ।
विभिन्नफलसंयुक्ताः पुराणोपासका मताः ॥ ४१ ॥
प्रणवोपासका ये वै परं ते देहधारिणम् ।
सर्वसामान्यभावेन मानयंति गजाननम् ॥ ४२ ॥
सत्यं प्रणवरूपं यत्तत्र देहधरः कथम् ।
तिष्ठेत्तु गणनाथोऽवयवादिभिरयं युतः ॥ ४३ ॥
सर्वमोंकार एवेदं न भिन्नं तत्र वर्तते ।
अनेन विधिना तेषां भजनं तस्य जायते ॥ ४४ ॥
ततः परं बुद्धिसंस्थं ये भजंति महामुने ।
गणेशानं सर्वसमं भावयंति न संशयः ॥ ४५ ॥
बुद्धेः परं बुद्धिसंस्थं बुद्धेः प्राकाश्यदायकम् ।
ब्रह्म तत्र कुतो भाति प्रणवो ह्यर्थसंयुतः ॥ ४६ ॥
मनोवाणीविहीनं यद्ब्रह्म ?ब्रह्मणिगं परम् ।
गणेश्वरोऽन्ये तु तत्र तिष्ठंति भ्रांतिजाः कुतः ॥ ४७ ॥
एवं भजंति विघ्नेशं परं प्रणववर्जितम् ।
ब्राह्मे पुराणे संस्थं ते जानीहि मुनिसत्तम ॥ ४८ ॥
ततः परं गणेशानं गाणेशस्थं भजंति ये ।
गणेशार्थरहस्यं ते ज्ञात्वा विश्वाससंयुताः ॥ ४९ ॥
प्रणवः प्रणवाकारो गणेशः सगुणः स्मृतः ।
ओंकारवर्जितोऽयं तु बुद्धिस्थो निर्गुणः स्मृतः ॥ ५० ॥
प्रणवो बुद्धिसंस्थस्तु तत्परो ब्रह्मदो भवेत् ।
तयोः प्रीत्यर्थमानंदाद्देहधारी बभूव ह ॥ ५१ ॥
गकारः प्रणवाकारो णकारो बुद्धिचालकः ।
तयोः स्वामी गणेशोऽयं गजवक्त्रादिचिह्नितः ॥ ५२ ॥
गाणपत्यस्वभावेन भजंते तं निरंतरम् ।
एकनिष्ठतया भक्त्या भवंते विप्रयोगिनः ॥ ५३ ॥
ततस्ते मौद्गले पूर्णं सेवंते भक्तिसंयुताः ।
त्रयाणां द्योतकं पूर्णं तेषां योगे गजाननम् ॥ ५४ ॥
योगरूपो गणेशोऽयं त्रिरूपधारकोऽभवत् ।
कार्यार्थं खेलसंयुक्तो मायाभ्यां नात्र संशयः ॥ ५५ ॥
प्रणवो जगदाकारश्चिदाकारो हि धीस्थितः ।
तयोरात्मा ततश्चायं गजवक्त्रादिचिह्नितः ॥ ५६ ॥
एवं ज्ञात्वा गणेशानं भजंते त्रिषु संस्थितम् ।
मौद्गलस्था सदा विप्र योगज्ञा योगरूपिणम् ॥ ५७ ॥
तत्र ते भजनं मुख्यं पंचधा कथयाम्यहम् ।
येन भक्त्येंद्र भूपस्त्वं भविष्यसि महामते ॥ ५८ ॥
मूर्तिसंस्थं गणेशानं भजेत् पूजादिमार्गतः ।
मंत्रस्तवनकाद्यैश्च देहधारिसुखप्रदैः ॥ ५९ ॥
प्रणवं जगदाकारं तत्र जीवमयं प्रभुम् ।
भजेत् सर्वत्र संस्थं तं सर्वेषां हितमाचरन् ॥ ६० ॥
कस्यचित्त्वशुभं विप्र न कुर्यात् स नरोत्तमः ।
अनेन विधिना सोऽपि तोषयेद् गणनायकम् ॥ ६१ ॥
द्वंद्वभावं समालोक्य साक्षिवद्भाववर्जितः ।
बुद्धिस्थं तोषयेत् देवं विघ्नेशं भक्तिवत्सलम् ॥ ६२ ॥
धर्माधर्मादिकं सर्वं भ्रमं त्यक्त्वा महामतिः ।
बुद्धिभावं परित्यज्य निःसंगः स भवेत् सदा ॥ ६३ ॥
नाहं कर्ता कारयिता न देहस्थो न निश्चितम् ।
न बुद्धिस्थोऽहमानंदाद्ब्रह्माऽहं निर्मलः सदा ॥ ६४ ॥
निर्लिप्तलिप्तहीना या भक्तिः सा परिकीर्तिता ।
तया गणेश्वरः प्रीतो भवेदात्मा सदाऽमलः ॥ ६५ ॥
न गणेशादहं भिन्नो देहधर्मः प्रवर्तते ।
गणेशभक्तिसंयुक्तो मौद्गलस्थो भजेत् परम् ॥ ६६ ॥
स्वयं गणेश्वरो भूत्वा त्रिविधस्थं गजाननम् ।
त्रिभिर्मार्गैर्भजेन्नित्यं शांत्या भक्तिसमन्वितः ॥ ६७ ॥
त्रयाणां योगभावे यो गणेशस्त्रिविधो मतः ।
Pageखं. ९ अ. १८ पान ६१
स्वयं त्रिविधकं पश्यन् भजेच्चानन्यचेतसः ॥ ६८ ॥
त्रिभिर्भावैः समायुक्तो भजेद्योगी महायशाः ।
गणेशं गणपाकारो मौद्गलज्ञो विचक्षणः ॥ ६९ ॥
एवं गणेश्वरस्यैव भजनं कुरु मानद ।
तेन योगींद्रवंद्यस्त्वं गाणपत्यो भविष्यसि ॥ ७० ॥
आदौ देहधरान् शंभुमुख्यान् संसेव्य वै नरः ।
ततो जीवस्वरूपस्थान् प्रणवाकृतिधारकान् ॥ ७१ ॥
ततो बुद्धिगतान् विप्र ततो भक्तिं लभेत् पराम् ।
गणेशं देहगं सोऽपि सेवतेऽनन्यभावतः ॥ ७२ ॥
ततो मौद्गलकं ज्ञात्वा योगी योगपरायणः ।
भजते त्रिविधे संस्थं गणेशं गणपप्रियः ॥ ७३ ॥
एतत्ते कथितं सर्वं भजनं गणपस्य च ।
स्वरूपं त्रिविधं पूर्णं त्रिमार्गद्योतनं मुने ॥ ७४ ॥
शौनक उवाच ।
अष्टादश पुराणानि कथितानि विशेषतः ।
अन्यान्युपपुराणानि व्यासेनामितबुद्धिना ॥ ७५ ॥
यथा वेदास्तथा सूत उपवेदाः प्रकीर्तिताः ।
नहि वेदसमा विप्रैर्मन्यंते वै विशेषतः ॥ ७६ ॥
तथैवोपपुराणानि तेषु गाणेश्वरं परम् ।
मौद्गलं कथितं विप्रैः कथं तत्राधिकं भवेत् ॥ ७७ ॥
सूत उवाच ।
यथा देवपतिः प्रोक्त इंद्रः सर्वत्र विप्रपैः ।
उपेंद्रो विष्णुराद्यो वै कथ्यते च विनायकः ॥ ७८ ॥
इंद्रादधिकभावेन मतौ विष्णुविनायकौ ।
तथैवोपपुराणानि ब्रह्मसायुज्यदानि तु ॥ ७९ ॥
आदौ श्रुत्वा पुराणानि ततः साधनसंयुतः ।
साधयित्वा भवेद्विप्र पात्रं चोपपुराणके ॥ ८० ॥
एवं जानीहि सर्वत्र पुराणेषु विशेषतः ।
वेदोपवेदवच्चात्र नैव ब्रह्मविनिश्चयात् ॥ ८१ ॥
मोहनार्थं जनानां वै भ्रांतिभावप्रकाशनात् ।
गणेशस्य स्वरूपं यद्वर्ण्यते गूढकं परम् ॥ ८२ ॥
अतो गणेश्वरस्यैव मता भक्तिः सुदुर्लभा ।
पूर्णपुण्यबलेनाढ्यैर्लभ्यते योगिभिः परा ॥ ८३ ॥
मौद्गलेन गणेशस्य स्वरूपं ज्ञायते जनैः ।
परिपूर्णं न संदेहोऽन्यथा भ्रांतिर्भविष्यति ॥ ८४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
योगामतार्थशास्त्रे नवमे खंडे दक्षमुद्गलसंवादे
गणेशस्वरूपक्रमवर्णनं नाम अष्टादशोऽध्यायः ॥