॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
धन्योऽहं कृतकृत्योऽहं कृतस्त्वद्य महामते ।
त्वदाज्ञावशगः स्वामिन् गुप्तं ग्रंथं करोमि ते ॥ १ ॥
अधुना वद मे भक्तिं गणेशस्य तया परम् ।
भजिष्यामि विशेषेण सदा भक्तिपरायणः ॥ २ ॥
मुद्गल उवाच ।
सांख्ययोगौ प्रजानाथ शृणु ते कथयाम्यहम् ।
ताभ्यां युक्तस्ततो भक्तिं करिष्यसि परां मुदा ॥ ३ ॥
चित्तं पंचविधं प्रोक्तं पंचसंख्याविवर्जितम् ।
कुरु चिंतामणौ लीनभावेन त्वं सुयोगतः ॥ ४ ॥
एतत् सांख्यं समाख्यातं गणेशाभेददायकम् ।
तेन योगी भवेत् सद्यः शांतियुक्तो विशेषतः ॥ ५ ॥
पंचचित्तोद्भवेषु त्वं भोगेष्वसि सुसंस्थितः ।
बिंबरूपेण तान् भुंक्ष्व शांत्या रससमन्वितः ॥ ६ ॥
चित्तेषु चित्तभूतेषु कर्म ज्ञानादिकं भवेत् ।
तद्गणेशार्पणं सर्वं कुरु त्वं नित्यमादरात् ॥ ७ ॥
स्वधर्मसंस्थितं देहं चित्तं शांतिसमन्वितम् ।
कुरुष्व सततं दक्ष ब्रह्मभावपरायणः ॥ ८ ॥
अयं योगः समाख्यातः शास्त्रे वै सर्वसंमतः ।
वेदेषु च पुराणेषु ब्रह्मभूयप्रदायकः ॥ ९ ॥
सांख्ययोगौ समाराध्य भजस्व गणनायकम् ।
योगाकारं समाध्याय तन्निष्ठस्तत्परायणः ॥ १० ॥
श्रवणं गणनाथस्य गुणानां नित्यमादरात् ।
कीर्तनं तस्य तद्वत्त्वं कुरुष्वैतद्रसैर्युतम् ॥ ११ ॥

Pageखं. ९ अ. १६ पान ५४
गाणेशस्य च भावस्य विस्मृतिं मा कुरु प्रभो ।
गणेशपादजं मोहं धारयेः सत्यभावतः ॥ १२ ॥
सांगं गणेश्वरस्यैव कुरु सर्वं विशेषतः ।
गणेशान्न परं श्रेष्ठं तस्मात्तन्निष्ठको भव ॥ १३ ॥
गाणपत्यस्य मार्गस्य सेवनं कुरु सर्वदा ।
साक्षिरूपं गणेशानं ज्ञात्वा हृत्स्थं भजस्व च ॥ १४ ॥
गणेशान्नैव भिन्नोऽहं भावयस्व निरंतरम् ।
एवं नवप्रकारैस्तं भज त्वं भक्तिसंयुतः ॥ १५ ॥
बाह्यांतरं गणेशार्थं कुरु त्वं कर्म चादरात् ।
नवधा खंडभावेन पूर्णभक्तो भविष्यसि ॥ १६ ॥
अथो चतुर्विधां भक्तिं कथयामि शृणुष्व ताम् ।
कायिकां वाचिकां पूर्णां मानसीं नित्यदा कुरु ॥ १७ ॥
तथा सांसर्गिकिं दक्ष तस्याश्चिह्नं वदाम्यहम् ।
गणेशार्थं सदा देहश्रमं कुरु महामते ॥ १८ ॥
गणेशभावहीनां यां वाचं मा त्वं वदस्व ताम् ।
गणेशचिंतनं तद्वद्गणेशे भावकस्य वा ॥ १९ ॥
गणेशभक्तियुक्तानां संगतिं कुरु सर्वदा ।
एवं भजस्व भक्त्या त्वं भक्तराजो भविष्यसि ॥ २० ॥
भक्तिः सा द्विविधा दक्ष मानवैः क्रियते परा ।
पाखंडसंयुता पूर्णा देवप्रीत्यर्थमेव वा ॥ २१ ॥
देहे विषयभोगार्थं भजनं संप्रवर्तते ।
पाखंडिनां सदा दक्ष लोकमोहकरं परम् ॥ २२ ॥
पाखंडभजनस्यैव चिह्नं मुख्यं वदाम्यहम् ।
तच्छृणु त्वं हितार्थाय लोकानां लोकतारक ॥ २३ ॥
सर्वाहंकारनिर्मुक्तः पाखंडी दृश्यते जनैः ।
जना मोहयुता येन भवंति भजनं यतः ॥ २४ ॥
यत्र येषां रुचिर्दक्ष यादृशी तादृशं सदा ।
करोति तत्र यत्नेन सर्वभावं प्रदर्शयन् ॥ २५ ॥
येनैव विषयाणां च प्राप्तिः संजायते परा ।
तादृशं भजनं तस्य परं भवति सर्वदा ॥ २६ ॥
अथवा चैकनिष्ठः स भवति देवतत्परः ।
स्वदेवभक्तान् संमोह्य भुंक्ते दुष्टोऽर्थलालसः ॥ २७ ॥
स्वदेवभजने सक्ता जनाः स्वल्पमतो बहु ।
तेषां रुचिप्रमाणेन भवति भजनं यतः ॥ २८ ॥
जनानां मोहदा भक्तिः कथिता ते प्रजापते ।
पाखंडिभिः सदा पूर्णा सेव्यते सा रुचिप्रदा ॥ २९ ॥
पाखंडसंयुता नित्यं भक्तिं कुर्वंति शाश्वतीम् ।
चांडालास्ते मताः शास्त्रे देवानां दुःखदायकाः ॥ ३० ॥
सत्यसंकल्पसिद्ध्या ते संयुतं देवमुत्तमम् ।
संगृह्य भिक्षुकं दुष्टाः कुर्वतेऽधः प्रगामिनः ॥ ३१ ॥
अथ देवप्रियां भक्तिं शृणुष्व सुसमाहितः ।
विचार्य हृदये भक्तिं कुरुते देवतुष्टये ॥ ३२ ॥
सदा देवपरो भूत्वा भजतेऽनन्यमानसः ।
लोकानां तत्र संभूयाद्रुचिर्वा ह्यरुचिः कदा ॥ ३३ ॥
लोका निंदंति तं भक्तमुत्तमाश्च स्तुवंति वा ।
ताननादृत्य देवस्य प्रीत्यर्थं भजते सदा ॥ ३४ ॥
स्वकीये हृदये सोऽपि विचार्य कुरुते सदा ।
भक्तिं यां तां प्रजानाति देवस्तस्य हृदि स्थितः ॥ ३५ ॥
यदा दैवस्य मार्गस्यापमानं वा ह्यनादरम् ।
कुर्वंति तान् परित्यज्य तदा भजति सर्वदा ॥ ३६ ॥
लोकानां रुचिदं तस्य भजनं जायते कदा ।
कदा तेषां विरुद्धं वा भक्त्या तद्देवतुष्टिदम् ॥ ३७ ॥

Pageखं. ९ अ. १६ पान ५५
अनेन विधिना दक्ष भजस्व गणनायकम् ।
गाणपत्यो न संदेहो भविष्यसि परात् परः ॥ ३८ ॥
पंच चित्तेषु यज्ज्ञानं तद्विद्धि विषयात्मकम् ।
तत्र रुचिविहीनस्त्वं भजस्व गणनायकम् ॥ ३९ ॥
सदा गणेश्वरे दक्ष रसोत्पत्तिः प्रजायते ।
चित्तस्य नान्यभावेषु यस्य भक्तः स उच्यते ॥ ४० ॥
एतद्भक्तिरहस्यं ते कथितं भक्तिदायकम् ।
समासेन भजस्वैव गणेशं ब्रह्मनायकम् ॥ ४१ ॥
इमं योगं नरो यस्तु शृणुयाच्छ्रावयेत् परम् ।
योगिभ्यो वाऽन्यजंतुभ्यः स ईप्सितमवाप्नुयात् ॥ ४२ ॥
नानेन सदृशं किंचिद्योगदं शास्त्रसंमतम् ।
अस्य श्रवणमात्रेण ब्रह्मीभूतो भवेन्नरः ॥ ४३ ॥
महापापोपपापेभ्यो मुच्यते पठनात् किल ।
श्रवणादस्य योगस्यांते ब्रह्म प्राप्नुयात् परम् ॥ ४४ ॥
पुत्रपौत्रादिसंयुक्तो धनधान्यसमन्वितः ।
आरोग्यादिसमायुक्तो लभेदंते परं पदम् ॥ ४५ ॥
सकामको लभेद्भोगान् पठनादस्य निश्चितम् ।
अंते ब्रह्ममयो भावी श्रवणान्नात्र संशयः ॥ ४६ ॥
योगगीतां पठेद्यस्तु निष्कामः शृणुयादथो ।
स विघ्नहीनतां प्राप्य ब्रह्मीभूतो भविष्यति ॥ ४७ ॥
योगगीतां पठेद्यस्तु स भवेत् शांतिसंयुतः ।
शृणुयाद्ब्रह्मभूतश्च ज्ञानवान् स्थितिसंयुतः ॥ ४८ ॥
कर्मनिष्ठैरियं सेव्या तपोनिष्ठैः प्रजापते ।
तत्तत्सिद्धिसमायुक्तैरिहांते ब्रह्म चाप्यते ॥ ४९ ॥
नित्यं पठेदिमां गीतां स गणेशो धरातले ।
दर्शनात् पावनो नॄणां सर्वसिद्धिप्रदायकः ॥ ५० ॥
एककालं द्विकालं वा त्रिकालं यः पठेदिमाम् ।
कृत्वाऽवश्यं गणेशानं स भवेत् सर्वदायकः ॥ ५१ ॥
शुक्लकृष्णचतुर्थ्योस्तु पेठदेतां नरोत्तमः ।
स भुक्त्वा सकलान् भोगानंते ब्रह्म लभेत् परम् ॥ ५२ ॥
अथवा शुक्लजायां स चतुर्थ्यां भाद्रमाघयोः ।
ज्येष्ठे माघे च कृष्णायां पठेदीप्सितमाप्नुयात् ॥ ५३ ॥
अथवा गणराजस्य तीर्थक्षेत्रादिके गतः ।
पठेदिमां सुभावेन स ईप्सितमवाप्नुयात् ॥ ५४ ॥
वेदशास्त्रपुराणेषु यत् सारं समुदाहृतम् ।
योगगीतामयं तुभ्यं सर्वसिद्धिप्रदायकम् ॥ ५५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन भक्तिरहस्यवर्णनयोगो नाम षोडशोऽध्यायः ॥
॥ इति योगगीतासूपनिषत्सु सुगमासु द्वादशोऽध्यायः ॥
॥ श्रीगजाननार्पणमस्तु ॥
॥ गीताश्लोकसंख्या ॥ ९९८ ॥