॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अथो लयं प्रवक्ष्यामि येन चित्तं लयं व्रजेत् ।
ब्रह्मण्यास्थाय योगं च ज्ञात्वा योगं प्रजापते ॥ १ ॥
लयश्चतुर्विधः प्रोक्तो नित्यो नैमित्तिकः परः ।
तृतीयः प्राकृतो विप्रैः सारस्वतश्चतुर्थकः ॥ २ ॥
कर्माकर्मविकर्माख्यो नित्यः प्रोक्तो बुधैः पुरा ।
कर्मानुकूलभावेन जनानां जननादिकम् ॥ ३ ॥
क्षणक्रमादिमारभ्यायुषामंतः समास्थितः ।
गर्भाधानाद्यवस्थानां प्रकाशश्च प्रकथ्यते ॥ ४ ॥
ब्रह्मणो दिवसांते स कुंठितो नात्र संशयः ।
नैमित्तिकलयेनैव त्रिलोकलयकारिणा ॥ ५ ॥
शुभाशुभयुताः सर्वे जंतवो लयमाययुः ।
शुभाशुभफलैर्हीना बभूवुः कर्मकुंठनात् ॥ ६ ॥
स्वर्गमंडलपर्यंतं त्रैलोक्यं प्रलयं गतम् ।
तावता स प्रमाणेन नित्यः संकथितो बुधैः ॥ ७ ॥
अथो नैमित्तिकं दक्ष कथयामि समासतः ।
चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ॥ ८ ॥
नैमित्तिको दिनांतो यस्तदाऽयं वर्तते लयः ।
तेन नैमित्तिकः प्रोक्तो नाम्ना सर्वार्थकोविदैः ॥ ९ ॥
अधुना प्राकृतं वच्मि व्यवस्थाभिर्युतं लयम् ।
महाकारणगं चेदं स प्राकृत उदाहृतः ॥ १० ॥
तत्त्वानामेकभावेऽयं स्थूलसूक्ष्मसमात्मनाम् ।
प्राकृतः प्रकृतिस्थत्वात् कथ्यते विबुधैः परः ॥ ११ ॥
सारस्वतं परं पूर्णं शृणु योगप्रदं प्रभो ।
निरोधचित्तभावेन पंचचित्तलयात्मकम् ॥ १२ ॥
मनोवाणीमयं सर्वं विश्वं नानास्वभावगम् ।

Pageखं. ९ अ. १५
मनोवाणीविहीनं त्वसंप्रज्ञातं विदुर्बुधाः ॥ १३ ॥
वाण्या संकथ्यते भावो मनस्तत्र प्रगच्छति ।
नानापदार्थभिन्नत्वात् सर्वेषां प्राणिनां प्रभो ॥ १४ ॥
वाण्या वाणीविहीनं यत् कथितं ब्रह्म हृद्गतम् ।
चित्तं समाधिना तत्र सदा तिष्ठति तादृशम् ॥ १५ ॥
वाणी सा द्विविधा प्रोक्ता ब्रह्माकारा जगन्मयी ।
तयोर्नाशे लयः प्रोक्तः परः सारस्वतो बुधैः ॥ १६ ॥
सरस्वतीलयं यत्र योगभावात् प्रगच्छति ।
महावाक्यादिसंयुक्ता स सारस्वत उच्यते ॥ १७ ॥
सारस्वतलयेनैव चित्तं पंचविधं प्रभो ।
चिंतामणौ लयं कृत्वा तिष्ठ त्वं योगिसंमतः ॥ १८ ॥
एतत् सर्वं समाख्यातं योगदं ते समासतः ।
गोपयैनं महायोगं ततो योगी भविष्यसि ॥ १९ ॥
मा योगं कथयस्व त्वमिमं कस्मै प्रजापते ।
पात्रहीनप्रभावेण भ्रंशदस्ते भविष्यति ॥ २० ॥
वासनाहीनभावेन गणेशज्ञानलालसान् ।
तान् बोधय विशेषेण तदाऽयं शुभदो भवेत् ॥ २१ ॥
अत्र ते कारणं दक्ष कथयामि समासतः ।
तस्य श्रवणमात्रेण संशयस्तु लयं व्रजेत् ॥ २२ ॥
योगाकारो गणेशानो यदा खेलपरोऽभवत् ।
तदा तं वचनं माये सिद्धिबुद्धी समूचतुः ॥ २३ ॥
सिद्धिबुद्धी ऊचतुः ।
यदि खेलं करोषि त्वमावाभ्यां गणनायक ।
आवां त्वां छादयिष्यावो नानाभावप्रदर्शनात् ॥ २४ ॥
वेदादिभिस्तत्र वाणीमयी गाथा गजानन ।
स्वरूपं ते यथातथ्यं कथयिष्यति मानवान् ॥ २५ ॥
तेन त्वां ब्रह्मणां नाथं ज्ञास्यंते मानवादयः ।
त्वदुपासनमात्रेण भवेयुर्ब्रह्मभूतकाः ॥ २६ ॥
न त्वां छादयितुं शक्ते वाणीस्थं गणनायक ।
अतस्तदर्थमानंदात् कुरु किंचिद्गजानन ॥ २७ ॥
एवं तयोर्वचः श्रुत्वा ते जगाद गजाननः ।
मा खेदं कुरुतं देव्यौ वाणीं संमोहयाम्यहम् ॥ २८ ॥
मोहिता सा मया वाणी वर्णनं भ्रांतिदं च मे ।
करिष्यति प्रगूढार्थयुतं सत्यार्थभाषितम् ॥ २९ ॥
गूढार्थं नैव देवेशा योगीशास्तत्त्वदर्शिनः ।
ज्ञास्यंति तेन मां सर्वे न भजिष्यंति भावतः ॥ ३० ॥
सिद्धिबुद्धियुतं ब्रह्म वाणी प्रकटयिष्यति ।
न गणेशमयीं गाथां कथयिष्यति योगदाम् ॥ ३१ ॥
सिद्धिबुद्धिमयं सर्वं जगद्ब्रह्म प्रसेव्य यः ।
यदा शुद्धो नरो भावी तदा मां ज्ञास्यति प्रिये ॥ ३२ ॥
परं सिद्धियुतं ब्रह्म कथितं सिद्धिदायकम् ।
स एव गणनाथोऽयं पतिः सिद्धेः प्रमाणतः ॥ ३३ ॥
परं बुद्धियुतं ब्रह्म परं बुद्धेः प्रकथ्यते ।
गणेश एव संप्रोक्तः पतिर्बुद्धेः प्रमाणतः ॥ ३४ ॥
एवं त्रैविध्यगं वाणी वदिष्यति सदा तु माम् ।
सिद्धिदं बुद्धिगं ब्रह्म शास्त्रेष्वेतत् त्रयं मतम् ॥ ३५ ॥
एवमुक्त्वा गणेशानः पुनस्तूष्णीं बभूव तम् ।
उवाच प्रणनामादौ भक्तिः परमदुःखिता ॥ ३६ ॥
भक्तिरुवाच ।
वरो दत्तस्त्वया नाथ सिद्ध्यै बुद्ध्यै गजानन ।
तेन भक्तिविहीनाश्च भविष्यंति सदा नराः ॥ ३७ ॥

Pageखं. २ अ. ९५
अतोऽहं दुःखसंयुक्ता चरिष्यामि निरंतरम् ।
मां पालय गणाध्यक्ष भक्तियुक्तान् जनान् कुरु ॥ ३८ ॥
एवमुक्तो गणाध्यक्षस्तामुवाच सुदुःखिताम् ।
भक्तिं भक्तिप्रियः पूर्णः स्मयमानः प्रजापते ॥ ३९ ॥
श्रीगणेश उवाच ।
मा शोकं कुरु कल्याणि नरा मद्भक्तिकारकाः ।
देवनागासुराद्याश्च भविष्यंति न संशयः ॥ ४० ॥
नानादेवपरा ये तु भक्त्या जन्मनि जन्मनि ।
संतुष्टा अमरास्तेभ्यो दास्यंत्यग्निरुचिं मुदा ॥ ४१ ॥
ततस्तेऽग्निं समाराध्य भक्तियुक्ता निरंतरम् ।
तुष्टं तं वै करिष्यंति नानायज्ञपरायणाः ॥ ४२ ॥
ततस्तस्य कृपायोगात् देवीभक्तियुता नराः ।
भविष्यंति च ते सर्वे तां भजिष्यंति संयताः ॥ ४३ ॥
एवं बहौ गते काले संतुष्टा सा प्रदास्यति ।
तेभ्यः सौरीं महाभक्तिं भजिष्यंति तया रविम् ॥ ४४ ॥
ततो बहौ गते काले सूर्यस्तोषसमन्वितः ।
उग्रां दास्यति भक्तिं तु वैष्णवीं तेभ्य आदरात् ॥ ४५ ॥
तया युक्ता भजिष्यंति विष्णुं भावसमन्विताः ।
नरास्ततः स संतुष्टो बहुकाले भविष्यति ॥ ४६ ॥
तुष्टो विष्णुः स्वयं तेभ्यो दाता स्याद्भक्तिमुत्तमाम् ।
शैवीं तया ततस्ते तं भजिष्यंति सदाशिवम् ॥ ४७ ॥
ततो बहौ गते काले तुष्टः शंभुः प्रदास्यति ।
भक्तिं गाणेश्वरीं तेभ्यो भजिष्यंति तया च माम् ॥ ४८ ॥
नराः शांतिं समालभ्य मत्तो योगपरायणाः ।
ब्रह्मीभूता भविष्यंति भजिष्यंति तथाऽपि ते ॥ ४९ ॥
एवं क्रमेण मद्भक्ता भविष्यंति नरादयः ।
त्वद्युक्ता मां भजिष्यंति तेषां वश्यो भवाम्यहम् ॥ ५० ॥
न भक्ते ते समं मे वै प्रियं किंचिद्भविष्यति ।
यत्र भक्तिर्गता तत्र यथा स्थास्यामि किंकरः ॥ ५१ ॥
स्वानंदं लक्षलाभौ च सिद्धिं बुद्धिं मदीयकम् ।
सर्वं तेभ्यः प्रदास्यामि भक्तेभ्यो नात्र संशयः ॥ ५२ ॥
अयं मदीयदेहश्च भक्त्यधीनो भविष्यति ।
भक्ताग्रे भक्तरूपेण सदा स्थास्यामि दासवत् ॥ ५३ ॥
कर्मभ्यश्चाधिकं भक्ते तपः परमदुश्चरम् ।
तपोभ्यश्चाधिकं ज्ञानं निःसंगपददायकम् ॥ ५४ ॥
ज्ञानाद्योगः समाख्यातोऽधिकः शांतिप्रदायकः ।
तस्माच्च त्वं महाभक्ते भविष्यस्यधिका प्रिया ॥ ५५ ॥
भक्तेः परं न किंचिन् मे ह्यधिकं शास्त्रसंमतम् ।
भविष्यति महाभागे मा चिंतां कुरु सर्वथा ॥ ५६ ॥
अन्यद्वाणी मदीयं यद् गूढं रूपं वदिष्यति ।
तदर्थं ते प्रियं भक्ते करोमि शृणु मे वचः ॥ ५७ ॥
मदीयभुजसंस्थोऽयं मुद्गलः सर्वदर्पहा ।
स एव ब्राह्मणो भूत्वा चरिष्यति निरंतरम् ॥ ५८ ॥
कृतं तेन मदीयं वै पुराणं वेदबृंहितम् ।
गूढार्थद्योतनं भावि सर्वेभ्यो भक्तिदायकम् ॥ ५९ ॥
स्वरूपं तत्र मे भक्ते प्रकटं पश्यतां नृणाम् ।
शृण्वतां तत्तदा पूर्णं भविष्यति न संशयः ॥ ६० ॥
तथापि दुर्लभा भक्तिर्मदीया त्वं भविष्यसि ।
अतोऽल्पज्ञा न मां देवि भजिष्यंति कदाचन ॥ ६१ ॥

Pageखं. ९ अ. १६ पान ५३
विघ्नं मौद्गलशास्त्रेऽहं करिष्यामि भ्रमप्रदम् ।
अश्रद्धं तेन नष्टं तद्भविष्यति कदा कदा ॥ ६२ ॥
तव भावस्य रक्षार्थं मौद्गलं निर्मितं मया ।
अतः परं महाभक्ते वद किं ते करोम्यहम् ॥ ६३ ॥
एवं तस्य वचः श्रुत्वा हर्षिता सा ननाम तम् ।
गणेशं भावगंभीरा न किंचित् पुनरब्रवीत् ॥ ६४ ॥
एतत्ते कथितं दक्ष गुह्यं विघ्नेश्वरस्य यत् ।
अतो गुप्तं प्रकर्षेण शास्त्रं कुरु मदीयकम् ॥ ६५ ॥
त्वं दक्षः सर्वभावेषु दक्षाद्दक्षो न विद्यते ।
अतस्तुभ्यं मया सर्वं कथितं शास्त्रमुत्तमम् ॥ ६६ ॥
हृदिस्थेन गणेशेन प्रेरितोऽहं प्रजापते ।
तदाज्ञया हृदिस्थं मे कथितं शास्त्रमुत्तमम् ॥ ६७ ॥
अनेन विधिना दक्ष भज त्वं गणनायकम् ।
तेनेप्सितं समासाद्य गाणपत्यो भविष्यसि ॥ ६८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन गणेशरहस्ययोगो नाम पंचदशोऽध्यायः ॥
॥ इति योगगीतासूपनिषत्सु सुगमासु एकादशोऽध्यायः ॥