॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
वक्ष्यामि भावनां चैकां वेदशास्त्रार्थसंयुताम् ।
नानामतभयं त्यक्त्वा तया योगी भवेन्नरः ॥ १ ॥
चैतन्यं न्यायशास्त्रज्ञा वदंति ब्रह्ममुख्यकम् ।
चैतन्येन युताः सर्वे स्वस्वकार्यपरायणाः ॥ २ ॥
सर्वप्रकाशकत्वात्तच्चैतन्यं ब्रह्मसंज्ञितम् ।
चैतन्येन यदा त्यक्तं तदा नाशमुपैष्यति ॥ ३ ॥
पंचचित्तात्मयोगेन चैतन्यं ब्रह्मसंज्ञितम् ।
भवत्यत्र न संदेहः शब्दार्थानामनेकतः ॥ ४ ॥
तार्किकाः प्रवदंत्येव सर्वाभेदं परं मतम् ।
ब्रह्मवेदांतवादेषु विद्यते शास्त्रसंमतौ ॥ ५ ॥
पंचचित्तमया भेदा अभेदा योगिना कृताः ।
योग एकार्थभावाख्यो भवत्यर्थप्रमाणतः ॥ ६ ॥
धर्मशास्त्रविदः सर्वे बोधान्नैव परं पदम् ।

Pageखं. ९ अ. १४ पान ४९
ब्रह्म बोधमयं मुख्यं भावाभावविवर्जितम् ॥ ७ ॥
पंचचित्तगतो धर्मस्त्यक्तव्यस्तेन योगकः ।
धर्मो भवेन्न संदेहो ब्रह्मधर्मधरः प्रभुः ॥ ८ ॥
सांख्या वदंति सांख्यं यद्ब्रह्म संख्याविवर्जितम् ।
विबोधान्न परं ब्रह्म खेलहीनप्रभावतः ॥ ९ ॥
तत्र पंचविधं चित्तं परं योगेन संख्यया ।
हीनं तदेव भवति योगाख्यं शब्दमानतः ॥ १० ॥
मीमांसका वदंत्येव स्वसंवेद्यं परं मतम् ।
कारणं ब्रह्म तत्रान्यन्नास्ति ब्रह्मणि संस्थितम् ॥ ११ ॥
पंचचित्तं परित्यज्य ब्रह्मरूपं करोति तत् ।
मीमांसया स्वयं योगी योगवाच्यं भवेत् परम् ॥ १२ ॥
एवं नानामतैर्युक्ता वदंति शास्त्रभेदतः ।
ब्रह्म नानाविधं दक्ष तदेवं योगगं भवेत् ॥ १३ ॥
शक्तिर्ब्रह्मेति शाक्ता वै ते वदंति न तत्परम् ।
संयोगो द्वंद्वयोर्यत्र तदेवं योगगं भवेत् ॥ १४ ॥
शक्तिः पंचमचित्तंगा सा ब्रह्मणि समागता ।
परिगृह्य निरोधाख्यं चित्तं देवी ततः स्मृता ॥ १५ ॥
सौरं ब्रह्मेति सौराश्च वदंति तु परात्परम् ।
तस्मात्परं न विद्येत सर्वाधारप्रमाणतः ॥ १६ ॥
भेदात्मकं स संजीव्य नित्यं तिष्ठति चादरात् ।
तेन योगमयः सूर्यो भवत्यत्र न संशयः ॥ १७ ॥
वदंति विष्णुर्ब्रह्मेति मुख्यं यद्वैष्णवा जनाः ।
तस्मात् परं पदं नास्ति सदानंदप्रमाणतः ॥ १८ ॥
चित्तं यत् पंचमं तत्र मोहं त्यक्त्वा तदात्मकम् ।
ब्रह्मयोगे भवेद्योग आनंदो नात्र संशयः ॥ १९ ॥
शैवाः शैवं परं ब्रह्म वदंति मुख्यभावतः ।
वेदे तस्मात् परं नास्ति किंचिन् मोहविहीनकम् ॥ २० ॥
निरोधं त्रिविधं दक्ष पराधीनं न संशयः ।
तत्रस्थं योगरूपाख्यं स्वाधीनं योगगं भवेत् ॥ २१ ॥
एवं नानामतैर्युक्ता स्वस्वदेवपरायणाः ।
वदंति तत् प्रमाणं वै शब्दानामर्थभावतः ॥ २२ ॥
अनेकार्थमयाः शब्दास्तेषु किं किं न संभवेत् ।
सर्वे योगार्थवाच्या वै जायंते योगिनः क्रमात् ॥ २३ ॥
अन्नप्राणादिकाः शब्दा एवं ब्रह्मप्रवाचकाः ।
ते सर्वे योगदा दक्ष भवंति ब्रह्मधारणात् ॥ २४ ॥
वेदांतमथ वक्ष्यामि सर्वमान्यं विशेषतः ।
शास्त्राणि च तदंगानि तत्प्रमाणानि सर्वदा ॥ २५ ॥
यः सर्वं सर्वभावेषु युतो जानाति मायया ।
मायाहीनप्रभावेण योगस्तिष्ठति नित्यदा ॥ २६ ॥
तदेव ब्रह्ममुख्यं तु सर्वेभ्यो नात्र संशयः ।
?ब्रह्मभ्य ऋग्जगादैव प्रज्ञानं योगगं स्मृतम् ॥ २७ ॥
पंचचित्तभवं सर्वं यो जानाति तदेव सः ।
योगस्तद्गतभावैः संवर्जितो भवति प्रभुः ॥ २८ ॥
अहं ब्रह्मेति यद्ब्रह्म सर्वदोषविवर्जितम् ।
सदैवं यजुषा प्रोक्तं मुख्यं वै परतः परम् ॥ २९ ॥
पंचचित्तभवा भेदास्तेष्वेवं भेदवर्जितम् ।
योगं विद्धि प्रजानाथ योगशास्त्रप्रमाणतः ॥ ३० ॥
मायामोहयुतं यच्च मायामोहविवर्जितम् ।
तयोर्योगे परं ब्रह्म साम्ना संकथितं किल ॥ ३१ ॥
मायामोहयुतं ब्रह्म स्वानंदाख्यं ततः परम् ।
अयोगं मायया हीनं तयोर्योगे तु योगगम् ॥ ३२ ॥
ब्रह्म ब्रह्मणि संस्थं यन्मनोवाणीमयं न तत् ।
मनोवाणीविहीनं नाथर्ववेदो जगाद ह ॥ ३३ ॥
मनोवाणीमयः प्रोक्तः संप्रज्ञातो न संशयः ।
असंप्रज्ञातकस्ताभ्यां हीनो योगस्तयोः परः ॥ ३४ ॥
एवं वेदार्थयुक्तानि महावाक्यानि मानद ।
योगाख्यानि विशेषेण ?जानीया योगसेवया ॥ ३५ ॥
कर्मादयः समाख्याताः शब्दा ब्रह्ममया बुधैः ।
भवंति योगसंज्ञस्थास्ते सर्वे योगिनां मते ॥ ३६ ॥
सर्वशास्त्रमतैक्यं ते कथितं शब्दधारणात् ।
तज्ज्ञात्वा मोहहीनः स सदा भवति मानवः ॥ ३७ ॥

॥ ॐ तत्सदिति श्रीमदात्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन नानामतैक्ययोगो नाम चतुर्दशोऽध्यायः ॥
॥ इति योगगीतासूपनिषत्सु सुगमासु दशमोऽध्यायः ॥