॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
शुक्लां कृष्णां गतिं ब्रूहि याभ्यां मुक्तिमवाप्नुयात् ।
संसारं च तथा योगिन् दयया सर्वतारक ॥ १ ॥
मुद्गल उवाच ।
कर्मत्वं त्रिविधं विद्धि कर्माकर्मविकर्मगम् ।
स्वधर्मवर्जितं सर्वं कर्म विकर्मसंज्ञकम् ॥ २ ॥
स्वधर्मसंयुतं कर्म भोगवासनया युतम् ।
कर्मसंज्ञं विजानीहि कृष्णगतिपदप्रदम् ॥ ३ ॥
ब्रह्मार्पणतया कर्म स्वधर्मस्थं भवेत् परम् ।
शुक्लगतिमयं विद्धि मुक्तिदं तदकर्मकम् ॥ ४ ॥
आग्नेयं ज्योतिरयनमुत्तराख्यं दिवा तथा ।
शुक्लगतिमयं सर्वं जानीहि मुक्तिदायकम् ॥ ५ ॥
चांद्रं ज्योति?र्धूमरात्री? दक्षिणायनमेव यत् ।
कृष्णगतिस्वरूपं तज्जानीहि ?जनिमृत्युदम् ॥ ६ ॥
तयोर्भेदं प्रवक्ष्यामि लोकानां हितकाम्यया ।
येन द्वैधं परित्यज्य ब्रह्मणि निरतो भवेत् ॥ ७ ॥
नि:कामिकं कर्म कृत्वा मृतो नरो यदा भवेत् ।
रात्रौ स दक्षिणार्के वा न तं गृह्णंति देवताः ॥ ८ ॥
देवभोगांस्तिरस्कृत्य ब्रह्मार्पणपरायणम् ।
नरं तं किं करिष्यंति देवाः स्वर्गसुखप्रदाः ॥ ९ ॥
अतो दाहे? स वै दक्ष अग्निज्योतिःस्थगो भवेत् ।
दिवसे समनुप्राप्ते दिवा दैवतगस्तथा ॥ १० ॥
उत्तरायणसंभूते स गच्छेद्भानुमंडले ।
प्रलये मंडलस्यैव नाशे पुरुषगो भवेत् ॥ ११ ॥
महाप्रलयवेलायां प्रकृतेः पुरुषस्य च ।
नाशे ब्रह्मणि गच्छेत् स ब्रह्मभूतो भवेत्ततः ॥ १२ ॥
सकामकं कर्म कृत्वा दिवसे उत्तरायणे ।
मृतं नरं न तं भानुर्गृह्णाति कामनायुतम् ॥ १३ ॥
सदाघे धूमसंस्थश्च यदा रात्रिः समागता ।
तदा तस्यां समाश्रित्य तथा तिष्ठेत् प्रजापते ॥ १४ ॥
दक्षिणायनमानंदादागतं वीक्ष्य तत्क्षणात् ।
विमानवरमारुह्य गच्छेत् स्वर्गं विहायसा ॥ १५ ॥
चांद्रं ज्योतिः समाश्रित्य भोगान् भुंक्ते स्वकर्मजान् ।
कर्मप्रमाणमार्गेण नानास्वर्गपरायणः ॥ १६ ॥
विधिं तत्र प्रवक्ष्यामि चंद्रकलासमुद्भवम् ।
अमृतं देवलोकेषु स्वर्गेषु भोगदं परम् ॥ १७ ॥
इह कर्म कृतं पूर्णं नरैस्तदमृतात्मकम् ।
भवति चंद्रगं सर्वं तेन कलायुतो भवेत् ॥ १८ ॥
शुक्लपक्षे क्रमेणायमेकैककलया प्रभुः ।
वृद्धियुक्तः स्वयंपूर्णः पूर्णिमायां प्रदृश्यते ॥ १९ ॥
कृष्णपक्षे सुराः सर्वे क्रमेणामृतभोजिनः ।
पिबंति चंद्रसंस्थं तदमृतं तृप्तिकारकम् ॥ २० ॥
तेन तृप्तियुताः सर्वे भवंति मासमानतः ।
अमायां पतितश्चंद्र ओषधीषु न संशयः ॥ २१ ॥
अत ओषधयश्छेद्या नरेण नैव निश्चितम् ।
अमायां चंद्रसंयोगयुक्ताः सुखपरायणाः ॥ २२ ॥
अतश्चंद्रभवं सर्वममृतं देवभूमिषु ।
चांद्रः स्वर्ग इति प्रोक्तस्तेनैवं वेदवादिभिः ॥ २३ ॥
देवानां विविधानां स कर्म कृत्वा सकामकम् ।
कर्मांगदेवमभ्यर्च्य गच्छेत् समर्प्य तत्क्रियाम् ॥ २४ ॥
तत्तल्लोकसुखं भुक्त्वा नानाभोगसमन्वितम् ।
भोगांते पुनरेवाऽसौ मेघमंडलगो भवेत् ॥ २५ ॥
तत्र जलमयो भूत्वा पतेद् वृष्ट्या स भूमिषु ।

Pageखं. ९ अ. १२ पान ४३
तत ओषधिगो भूत्वा भवेदन्नमयस्ततः ॥ २६ ॥
ततो वीर्यं समाश्रित्य गच्छेत् स जठरे स्त्रियः ।
तत्र तत्त्वानि तं दक्ष आविशंति न संशयः ॥ २७ ॥
क्षेत्रज्ञः संस्थितस्तत्र तत्त्वैः क्षेत्रं विनिर्ममे ।
विधिं तस्य प्रवक्ष्यामि गर्भोपनिषदि भवम् ॥ २८ ॥
तत्रैकदिवसेनैव स्त्रीवीर्ये रक्तसंश्रिते ।
तस्मिन् संमिलनं कृत्वा तदाकारो भवेन्नरः ॥ २९ ॥
ततस्त्रिदिवसैः सोऽपि फेनरूपो भवेन्नरः ।
?बुहुदः पंचदिवसैः पेशी सप्तदिनैस्तथा ॥ ३० ॥
ततश्चतुर्दशैः सोऽपि दिवसैः फुल्लतां गतः ।
पंचविंशतिभिस्तत्र मांसरूपो भवेत् स्वयम् ॥ ३१ ॥
मासेन कठिनत्वं स प्रगच्छेत्तत्र संस्थितः ।
द्विमासाभ्यां शिरो युक्तो भवेत्तत्र प्रजापते ॥ ३२ ॥
त्रिमासैः कंठसंयुक्तश्चतुर्मासैस्त्वचा युतः ।
पंचमासैर्भवेज्जंतुरिंद्रियैः संयुतः क्रमात् ॥ ३३ ॥
अवयवादिसंयुक्तो नखरोमसमन्वितः ।
भवेन् मुखेन संयुक्तो मासैः षड्भिर्न संशयः ॥ ३४ ॥
तत इंद्रियसंभूतं ज्ञानं भवेत् क्रमेण वै ।
षण्मासैः परिपूर्णैश्चाऽऽकृतिः पूर्णा भवेत् परा ॥ ३५ ॥
पूर्वकर्मानुसारेण यादृशी योनिराभवेत् ।
तादृशाकृतिसंयुक्त इंद्रियैश्च समन्वितः ॥ ३६ ॥
सप्तमासैर्भवेज्जंतुश्चेतनया समन्वितः ।
उदरे प्रचरेत् सोऽपि मातुर्दुःखसमन्वितः ॥ ३७ ॥
अवकाशविहीनः स पीडितो जंतुभिः सदा ।
मूर्च्छां गच्छेत् पुनः संज्ञां कोमलोऽतीव मानवः ॥ ३८ ॥
अष्टमासैस्ततस्तत्र बुद्धियुक्तो भवेन्नरः ।
सांख्ययोगपरो भूत्वा ध्यायेद्ब्रह्म सनातनम् ॥ ३९ ॥
अतिसंकोचभावेन पीडितो जंतुभिस्तथा ।
मातुर्भक्ष्यान्नदोषैः स वेदनासंयुतो भवेत् ॥ ४० ॥
गर्भदुःखं स विज्ञाय तन्निवृत्त्यर्थमादरात् ।
सांख्ययोगपरो भूत्वा भजेत्तं गणनायकम् ॥ ४१ ॥
ततस्तत्र भवेत्तस्य ज्ञानं परमसौख्यदम् ।
तेनानंतभवानां स दृष्ट्वा दुःखं निवृत्तिगः ॥ ४२ ॥
अनन्यमनसा देवं स्तुयात् स्तोत्रैर्महामतिः ।
गर्भवासप्रशांत्यर्थं ब्रह्म भूयार्थमादरात् ॥ ४३ ॥
गर्भ उवाच ।
नमस्ते गणनाथाय ब्रह्मणे ब्रह्मरूपिणे ।
अनाथानां प्रणाथाय विघ्नेशाय नमो नमः ॥ ४४ ॥
ज्येष्ठराजाय देवाय देवदेवेशमूर्तये ।
अनादये परेशाय चादिपूज्याय ते नमः ॥ ४५ ॥
सर्वपूज्याय सर्वेषां सर्वरूपाय ते नमः ।
सर्वादये परब्रह्मन् सर्वेशाय नमो नमः ॥ ४६ ॥
गजाकारस्वरूपाय गजाकारमयाय ते ।
गजमस्तकधाराय गजेशाय नमो नमः ॥ ४७ ॥
आदिमध्यांतभावाय स्वानंदपतये नमः ।
आदिमध्यांतहीनाय त्वादिमध्यांतगाय ते ॥ ४८ ॥
सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे ।
सिद्धिबुद्धिमयायैव ब्रह्मेशाय नमो नमः ॥ ४९ ॥
शिवाय शक्तये चैव विष्णवे भानुरूपिणे ।
मायिनां मायया नाथ मोहदाय नमो नमः ॥ ५० ॥
किं स्तौमि त्वां गणाधीश यत्र वेदादयोऽपरे ।
योगिनः शांतिमापन्ना अतस्त्वां प्रणमाम्यहम् ॥ ५१ ॥
रक्ष मां गर्भदुःखात्त्वं त्वामेव शरणागतम् ।
जन्ममृत्युविहीनं वै कुरुष्व ते पदप्रियम् ॥ ५२ ॥
एवं संस्तुतवंतं तं नवमासादनंतरम् ।
प्रसूतिजो महावायुर्बहिः कुर्यान्नरं क्षणात् ॥ ५३ ॥
वायुना चालितः सोऽपि मुमूर्च्छ? दुःखसंयुतः ।
संकीर्णांगः पतेज्जंतुर्धरण्यां योनिमार्गतः ॥ ५४ ॥
भवेत् स सावधानोऽत्र विस्मृतो ज्ञानमुत्तमम् ।
बालभावधरः कुर्याद्रोदनं धरणीतले ॥ ५५ ॥
फलहीनं भवेत् सर्वं गर्भागारकृतं महत् ।
ज्ञानादिकमतो भूमौ साधयेत् सर्वमंजसा ॥ ५६ ॥
न साधितं नरेणात्र कर्मभूमौ प्रजापते ।
ज्ञानादिकं तदा सोऽपि गर्भजं दुःखमश्नुते ॥ ५७ ॥
एवं कृष्णा गतिश्चैव कथिता ते विशेषतः ।
जन्ममृत्युकरी जंतोः सुखदुःखप्रदायिनी ॥ ५८ ॥
इदं गर्भकृतं स्तोत्रं यः पठिष्यति मानवः ।
स भुक्त्वा सकलान् भोगानंते स्वानंदगो भवेत् ॥ ५९ ॥
न कदाचिल्लभेत् सोऽपि गर्भवासं प्रजापते ।
अतो विशेषतो जंतुर्निरंतरमिदं जपेत् ॥ ६० ॥
अधुना कथयिष्यामि ह्यन्यमर्थं सुखप्रदम् ।
शुक्लकृष्णगतिसंस्थं येन ज्ञानं तयोर्भवेत् ॥ ६१ ॥
?भक्तिमुक्तिप्रलोभार्थं नरः कुर्यान्निरंतरम् ।
कर्म स्वधर्मसंयुक्तो नानादैवं स योगवित् ॥ ६२ ॥
उत्तरायणगे भानौ दिवसे वा मृतो भवेत् ।
स चाग्निलोकमासाद्य तपोयुक्तो भवेत् सदा ॥ ६३ ॥
तत्र भोगेप्सुतां ज्वाल्य गच्छेच्छक्तिं महामतिः ।
तत्राभिमानमृत्सृज्य गच्छेत् दिवं दिवाकरम् ॥ ६४ ॥
अतिध्यानेन संयुक्तस्तत्रात्मानं स चिंतयेत् ।
अंतरात्मानमुत्सृज्य गच्छेद्विकुंठमेव च ॥ ६५ ॥
तत्रानंदं परित्यज्य शिवं गच्छेन्न संशयः ।
तत्र साक्षित्वमुत्सृज्य गच्छेत् स्वानंदमंजसा ॥ ६६ ॥
तत्र गणेश्वरं दृष्ट्वा ब्रह्मीभूतो नरो भवेत् ।
शुक्लगतिप्रभावेण कथितं ते प्रजापते ॥ ६७ ॥
यदा दक्षिणगे भानौ रात्रौ वा स मृतो भवेत् ।
भुक्तिमुक्तिपरः सोऽपि गच्छेत् स्वर्गं ततो नरः ॥ ६८ ॥
नानास्वर्गफलं भुक्त्वा स्वकर्मनिर्मितं नरः ।
पुनः पतेद्विधे भूमौ तत्र मोक्षरुचिर्भवेत् ॥ ६९ ॥
ततः शुक्लां समाश्रित्य मोक्षं गच्छेत् स योगवित् ।
एवं जानीहि भो दक्ष गत्योर्मार्गं पुरातनम् ॥ ७० ॥
यदैकदेवतां श्रित्वा तद्भक्तस्तत्परः सदा ।
उपासनाविधानेन स्वधर्मस्थो भजेत् स ताम् ॥ ७१ ॥
स मृतः स्वेष्टदेवस्य लोकं गच्छेन्न संशयः ।
तत्क्षणाच्चंद्रसूर्याख्यौ मार्गौ नैव प्रकीर्तितौ ॥ ७२ ॥
तत्र भोगान् प्रभुंजानः स पतेदिह निश्चितम् ।
त्रिगुणात्ममया देवास्तेषां नाशे प्रजापते ॥ ७३ ॥
यदा गणेश्वरं सोऽपि भजेदत्रैव मानवः ।
अंते स्वानंदगो भूत्वा ब्रह्मीभूतो भविष्यति ॥ ७४ ॥
स्वानंदो नाशहीनश्च सदा ब्रह्मसुखप्रदः ।
अतः स्वानंदमाश्रित्य ब्रह्मीभूतो भविष्यति ॥ ७५ ॥
मरणे ?दाघहीनश्चेत्तेजस्तत्त्वं समाश्रितः ।
अथवा धूम्रतत्त्वं स शुक्लकृष्णगतिश्रितः ॥ ७६ ॥
पूर्ववत् सर्वमाख्यातं तस्य सर्वं प्रजापते ।

Pageखं. ९ अ. १३
एवं विस्तरतो गत्योः कथितं ते प्रजापते ॥ ७७ ॥
अतो गणेश्वरं दक्ष समाश्रय हितप्रदम् ।
योगक्षेमं स ते कुर्यादनन्यचेतसः सदा ॥ ७८ ॥
न शुक्ला नैव कृष्णा ते भविष्यति गतिः कदा ।
ब्रह्मभूयमयं भावं प्राप्स्यसे नात्र संशयः ॥ ७९ ॥

॥ ॐ तत्सदिति श्रीमदात्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन शुक्लकृष्णगतियोगो नाम द्वादशोऽध्यायः ॥
॥ इति योगगीतासूपनिषत्सु सुगमासु अष्टमोऽध्यायः ॥