Pageखं. ९ अ. ११ पान ३९
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
त्वया प्रोक्तः पुरा विप्र विचारो ब्रह्मणः परः ।
तं कृत्वा योगमाप्नोति तद्वदस्व हितावहम् ॥ १ ॥
क्रियया शुद्धचित्तो यो नरो ब्रह्मपरायणः ।
सर्वत्र ब्रह्मरूपं यद्विधिना केन पश्यति ॥ २ ॥
मुद्गल उवाच ।
बाह्यांतरां क्रियां कृत्वा शुद्धचित्तो नरोत्तमः ।
तत्त्वविचारमार्गेण पश्यति ब्रह्म शाश्वतम् ॥ ३ ॥
तत्तेऽहं कथयिष्यामि तत्त्वज्ञानं प्रजापते ।
आदौ योगिजनानां यत् साधनं योगदायकम् ॥ ४ ॥
पृथ्वी जलं तथा तेजो वायुराकाशमेव यत् ।
पंचभूतमयो देहः प्रकृतिः सा च पंचधा ॥ ५ ॥
क्रियारूपा महाभागा नानाभेदपरायणा ।
विभज्यात्मानमेवं सा क्रीडति विविधे रता ॥ ६ ॥
भूतानामेकभावाख्या पंचानां ज्ञानरूपिणी ।
प्रकृति?र्हृदि संस्था सा जीवभावधरा परा ॥ ७ ॥
तया ज्ञानं भवेत् सर्वं नानाविवेकदायकम् ।
तदाधारं जगत् सर्वमेकरूपा प्रकीर्तिता ॥ ८ ॥
तयोर्योगे प्रजानाथ ब्रह्मैवमभिधीयते ।
क्रियाज्ञानस्वरूपाख्यं द्वंद्वहीनं परात्परम् ॥ ९ ॥
तदेव पंचधा जातं शृणु तद्योगदायकम् ।
स्थूलं सूक्ष्मं समं चात्मप्रतीतं बिंदुसंज्ञितम् ॥ १० ॥
समष्टिव्यष्टिभावेन द्विविधं ब्रह्म कथ्यते ।
पृथक्त्वेन स्वयं भाति पंचसु पंचभेदतः ॥ ११ ॥
स्थूलं जागृन्मयं ब्रह्म तदेव द्विविधं मतम् ।
विश्वाख्यं व्यष्टिरूपेण वैश्वानरं समष्टिगम् ॥ १२ ॥
अंडेषु विविधा रूपा जंतवो दृष्टिगोचराः ।
जागृद्भावधराः सर्वे विश्वात्मका उदाहृताः ॥ १३ ॥
तस्य बोधं प्रवक्ष्यामि सुगमार्थप्रकाशकम् ।
क्रियात्मकेषु देहेषु क्रियारूपा भवंति ते ॥ १४ ॥
ज्ञानात्मकेषु देहेषु ज्ञानरूपधरा मताः ।
उभयोर्योगभावेन विश्वाख्यास्ते प्रकीर्तिताः ॥ १५ ॥
बाह्यदेहस्य भो दक्ष वित?स्तिर्यादृशी भवेत् ।
तावन्मानेन सर्वेषां ज्ञानदेहो हृदि स्थितः ॥ १६ ॥
विराट् जागृत् स्वरूपस्थो वैश्वानर इति स्मृतः ।
व्यापकात्मकदेहेन तिष्ठति विश्वभाविषु ॥ १७ ॥
तस्यापि द्विविधो देहः क्रियाज्ञानप्रभेदतः ।
तयोर्योगे समाख्यातो वैश्वानरश्च तन्मयः ॥ १८ ॥
विश्ववैश्वानरयोश्च योगे ब्रह्म प्रकीर्तितम् ।
जागृद्भावधरं पूर्णं स्थूलभूतप्रकाशकम् ॥ १९ ॥
एतत् स्थूलस्य तत्त्वं ते कथितं तु समासतः ।
तत्र तत्त्वविधिं भिन्नं शृणु योगसमाधिदम् ॥ २० ॥
जन्ममृत्युयुतं यच्च नानाभावपरायणम् ।
त्वंपदाख्यं प्रजानाथ विद्धि तत् सर्वभावगम् ॥ २१ ॥
जन्ममृत्युविहीनं यदेकरूपं प्रकीर्तितम् ।
तत्पदाख्यं च तद्विद्धि परं सर्वात्मधारकम् ॥ २२ ॥
तयोर्योगे भवेत्तत्वं तदेवासिपदं परम् ।
द्वंद्वभावविहीनं यद् द्वंद्वरूपप्रकाशकम् ॥ २३ ॥
त्वंपदं क्रियया युक्तं ज्ञानाख्यं तत्पदं भवेत् ।
तयोर्योगे भवेद्विश्वं तत्त्वरूपं न संशयः ॥ २४ ॥
एवं वैश्वानराख्यं त्वं जानीहि तत्त्वसंज्ञितम् ।
क्रियाज्ञानसमायोगे तयोः प्रकाशकारकम् ॥ २५ ॥
अथान्यच्छृणु दक्ष त्वं तत्त्वरूपं पुरातनम् ।
विश्वाख्या जंतवः सर्वे नानाभावात्मका बुधैः ॥ २६ ॥
जन्ममृत्युयुताः प्रोक्तास्त्वंपदधारका मताः ।
वैश्वानरस्त्वंपदश्चैकरूपाद्व्यापको मतः ॥ २७ ॥
तयोरभेदभावे यद्ब्रह्मतत्त्वं प्रकीर्त्यते ।
जागृद्भावधरं पूर्णं स्थूलभावपरायणम् ॥ २८ ॥
एवं नानाविभागेषु ज्ञातव्यं तत्त्वरूपकम् ।
सूक्ष्मादिषु प्रजानाथ ब्रह्मसौख्यप्रदायकम् ॥ २९ ॥
अथ सूक्ष्मं प्रवक्ष्यामि योगमार्गप्रसिद्धये ।
शुद्धचित्तप्रभावेण तज्ज्ञानं तन्मयं भवेत् ॥ ३० ॥
बाह्यं स्थूलं विशेषेण जागृदन्नमयं परम् ।
आंतरं स्वप्नभावाख्यं सूक्ष्मं जानीहि मानद ॥ ३१ ॥
प्राणो दशविधः प्रोक्तः सूक्ष्मरूपोंऽतरे स्थितः ।
तस्मात् सूक्ष्मं मनः प्रोक्तं प्राणांतः संव्यवस्थितम् ॥ ३२ ॥
तस्मात् सूक्ष्मं च विज्ञानं देहद्वंद्वज्ञमुत्तमम् ।
मनोंऽतरे स्थितं पूर्णं तदंतर्न च विद्यते ॥ ३३ ॥
त्रिविधं कोशसंयुक्तं स्वप्नं सूक्ष्मस्वरूपकम् ।
सर्वांतरे स्थितं ब्रह्म द्वंद्वमायाप्रचालकम् ॥ ३४ ॥
क्रियारूपस्तथा देहः सूक्ष्मभूतमयः स्मृतः ।
सर्वांतरे समास्थाय कल्पिताभोगकारकः ॥ ३५ ॥
ज्ञानदेहः समाख्यातः सदैकभावधारकः ।
पूर्ववत् सर्वं विज्ञेयं सूक्ष्ममायाप्रकाशकम् ॥ ३६ ॥
भिन्नभावधराः सर्वे जंतवः स्वप्नगाः पराः ।
तैजसास्ते मताः शास्त्रे क्रियाज्ञानप्रकाशकाः ॥ ३७ ॥
विराट् तत्र समाख्यातो हिरण्यगर्भसंज्ञितः ।
व्यापकः स्वप्नभावेषु नानाजंतुप्रचालकः ॥ ३८ ॥
तयोरभेदभावे यद्ब्रह्म स्वप्नात्मकं परम् ।
सूक्ष्ममायाप्रकाशत्वात् सूक्ष्मं तत् कथ्यते बुधैः ॥ ३९ ॥
पूर्ववत्तत्त्वभावश्च विज्ञेयः सूक्ष्मगः परः ।
शुद्धचित्तप्रभावेण साक्षात्कारं करोति सः ॥ ४० ॥
अतः परं समाख्यं यद्ब्रह्म सुषुप्तिसंज्ञितम् ।
कथयामि महाप्रीत्या लोकानामुपकारकम् ॥ ४१ ॥
बाह्यं जागृन्मयं दक्ष वपुः सर्वत्र पठ्यते ।
आंतरं स्वप्नमित्युक्तं तयोर्योगे समात्मकम् ॥ ४२ ॥
बाह्यांतरैकभावाख्यं बाह्यांतरविवर्जितम् ।
आनंदकोशगं साम्यं कृतं भूतैर्गुणात्मकैः ॥ ४३ ॥
जागृत्त्यक्त्वा नरो यस्तु स्वप्नं गच्छति तत्र सः ।
तयोः संधिं समाश्रित्य सुषुप्तिर्जायते परा ॥ ४४ ॥
तथा स्वप्नं परित्यज्य जागृतिं गच्छति स्वयम् ।
तयोः संधिं समास्थाय तिष्ठति सा सुषुप्तिका ॥ ४५ ॥
यत्र सुप्तो नरो दक्ष ज्ञानयुक्तो भवत्यसौ ।
न जानाति स्वकं चान्यं स्वप्नं नैव प्रपश्यति ॥ ४६ ॥
सा सुषुप्तिः समाख्याता निद्रां संश्रित्य तिष्ठति ।
जागृतिस्वप्नबोधं या करोति सा सुषुप्तिका ॥ ४७ ॥
सा द्विधा मायया युक्ता प्राज्ञेश्वरस्वभावतः ।
भिन्नदेहधराणां तु प्रज्ञाख्या सा प्रकीर्तिता ॥ ४८ ॥
विराड्रूपधरा नित्या सेश्वराख्या प्रकथ्यते ।
ब्रह्मरूपा तयोर्योगे तत्त्वसंज्ञा यथा पुरा ॥ ४९ ॥
अथ तुरीयरूपं ते कथयामि समासतः ।
नादरूपधरं भूततन्मात्राभेदमंजसा ॥ ५० ॥
व्यवस्थासंश्रितं पूर्णं त्रिषु साक्षिवदुच्यते ।
तस्यानुभवमाहात्म्यं कथयामि हिताय ते ॥ ५१ ॥
मया जागृन्मयं भुक्तं मया स्वप्नं विलोकितम् ।
निद्रायां न मया किंचिज्ज्ञातं वदति यः स वै ॥ ५२ ॥

Pageखं. ९ अ. ११ पान ४१
यदा जागर्ति विश्वस्थस्तदा द्वाभ्यां विवर्जितः ।
यदा स्वपिति स द्वाभ्यां हीनस्तिष्ठति निश्चितम् ॥ ५३ ॥
यदा सुषुप्तिसंस्थोऽयं तदा द्वाभ्यां विवर्जितः ।
एवं भेदप्रकारैः स व्यवस्थासंयुतो मतः ॥ ५४ ॥
तस्य तत्त्वं प्रवक्ष्यामि वैश्वतैजसप्राज्ञगः ।
त्वंपदाख्यः समाख्यातो नादरूपधरः प्रभुः ॥ ५५ ॥
त्रिविरा?ण्मय एवासौ तत्पदाख्यः प्रकीर्त्यते ।
तयोरभेदभावे स तत्त्वरूपोऽस्मितामयः ॥ ५६ ॥
अवस्थानां समायोगो नादस्तुरीयधारकः ।
सदैकभावसंयुक्तः सर्वत्राऽसौ विराजति ॥ ५७ ॥
न बाह्यो नांऽऽतरस्थोऽयं नोभयात्मक उच्यते ।
अहमित्येव कोशात्माऽस्मिताख्यः परमेश्वरः ॥ ५८ ॥
अतः परं प्रवक्ष्यामि बिंदुतत्त्वं सुसौख्यदम् ।
पंचमं ब्रह्मसंज्ञं तत् देहानां देहगं परम् ॥ ५९ ॥
व्यवस्थामयसंस्थं यत्त्वंपदस्थं प्रकथ्यते ।
तुरीयसंज्ञितं देहं तत्पदाख्यं प्रकीर्तितम् ॥ ६० ॥
तयोरभेदभावे यत्तत्त्वं योगमयं परम् ।
चतुर्षु संस्थितं पूर्णं चतुर्भिर्वर्जितं सदा ॥ ६१ ॥
एवं तत्त्वविचारेण शमदमपरायणः ।
संकल्पजान् सदा कामांस्त्यक्त्वा योगमयो भवेत् ॥ ६२ ॥
सर्वत्र ब्रह्मसंस्थं यत् पश्येत्तन्नात्र संशयः ।
तत्त्वरूपधरं पूर्णं तत्त्वविचारतः सदा ॥ ६३ ॥
अथान्यत्तत्त्वमार्गं ते कथयिष्यामि सर्वदम् ।
बिंदुस्त्वंपदसंज्ञस्थः सोऽहं तत्पदगं मतम् ॥ ६४ ॥
तयोर्योगे प्रजानाथ बोधस्तत्त्वमयः स्मृतः ।
मनोवाणीविहीनत्वात् दृश्यते योगिना परः ॥ ६५ ॥
बोधस्त्वंपदरूपश्च विबोधस्तत्पदात्मकः ।
तयोर्योगे स्वसंवेद्यं तत्त्वं वेदे प्रकीर्तितम् ॥ ६६ ॥
असत्त्वंपदरूपं सत्तत्पदस्थमुदुच्यते ।
तयोर्योगे समं ब्रह्म तत्त्वं योगप्रदं मतम् ॥ ६७ ॥
समं त्वंपदसंज्ञस्थमव्यक्तं तत्पदस्थितम् ।
तयोर्योगे तथा तत्त्वं स्वानंदाख्यं प्रकीर्तितम् ॥ ६८ ॥
स्वानंदस्त्वंपदाख्यश्चायोगस्तत्पदमुच्यते ।
तयोर्योगे परं तत्त्वं पूर्णयोगमयं मतम् ॥ ६९ ॥
सिद्धिस्त्वंपदगा प्रोक्ता बुद्धिस्तत्पदगा मता ।
तयोर्योगे गणेशानस्तत्त्वरूपः प्रकथ्यते ॥ ७० ॥
एवं नानामतैर्युक्ता वेदांतार्थविचक्षणाः ।
तत्त्वं वदंति दक्ष त्वं जानीहि नात्र संशयः ॥ ७१ ॥
अनंतभावसंयुक्तं त्वंपदं विद्धि सर्वदा ।
अकल्पितं तत्पदाख्यं तयोर्योगे परं भवेत् ॥ ७२ ॥
इदं सारं रहस्यं ते कथितं योगदं परम् ।
येन सर्वत्र योगं स संपश्येज्ज्ञानचक्षुषा ॥ ७३ ॥

॥ ॐ तत्सदिति श्रीमदात्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन तत्त्वविचारयोगो नाम एकादशोऽध्यायः ॥
॥ इति योगगीतासूपनिषत्सु सुगमासु सप्तमोऽध्यायः ॥