॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
विभूतीर्वद योगीश गणेशस्य महात्मनः ।
या ज्ञात्वा ताः समाराध्य गणेशज्ञो भवेन्नरः ॥ १ ॥
मुद्गल उवाच ।
अपारा गणनाथस्य विभूतयो न संशयः ।
ता न शक्ताः कथयितुं भवंति शंकरादयः ॥ २ ॥
क्षणे क्षणे गणेशानो नानाखेलपरायणः ।
विभूतिभिर्जगत्सर्वं भावयति परात्परः ॥ ३ ॥
लोकेषु तत्त्वमुख्येषु जगत्सु ब्रह्मसु प्रभोः ।
ये श्रेष्ठास्तस्य ते सर्वे विभूतिपदधारकाः ॥ ४ ॥
कल्पे कल्ये विभूतीनामवतारा असंख्यकाः ।
गणेशस्य तथा दक्ष तान् वक्तुं कः क्षमो भवेत् ॥ ५ ॥
अतः संक्षेपतस्तुभ्यं कथयिष्यामि ताः शृणु ।
विभूतीर्गणनाथस्य नानासिद्धिप्रदायिनीः ॥ ६ ॥
जगत्सु ब्रह्मसु प्राज्ञ योगरूपो गजाननः ।
कथं न भिन्नभावाख्यं वर्तते वर्णयाम्यहम् ॥ ७ ॥
मायाभ्यां संयुतः सोऽपि नानावेषप्रधारकः ।
अयोगिनामिदं हृद्यं सत्यं संभासते सदा ॥ ८ ॥
मायायुक्तप्रभावेण किं किं गजाननस्य च ।

Pageखं. ९ अ. १० पान ३७
न संभवेदहं मायां समाश्रित्य वदामि ताः ॥ ९ ॥
कलांशाः कलया युक्ताः कलांशांशाः कलात्मकाः ।
तेषामंशधरा ये ते सर्वे विभूतिधारकाः ॥ १० ॥
एवमेव गणेशानः पृष्टश्च नारदेन सः ।
जगाद ताः शृणुष्व त्वं विभूतीः परमाद्भुताः ॥ ११ ॥
श्रीगणेश उवाच ।
पूर्णो योगेषु सर्वेषु चित्तरोधमयः परः ।
मायाहीनप्रभावाणामयोगोऽहं महामुने ॥ १२ ॥
स्वानंदो निजभूतेषु तुर्येष्वव्यक्तसंज्ञितः ।
आनंदसमभावेषु जीवेष्वात्माहमंजसा ॥ १३ ॥
नानाभेदेषु ब्रह्माहमसद्रूपप्रधारकम् ।
सत्येषु सांख्यरूपोऽहं बोधः खेलकरेषु च ॥ १४ ॥
देहाभिमानयुक्तेषु सदैकोऽहं महामते ।
देहेषु बिंदुरूपोऽहं चेतनासु गुणेश्वरः ॥ १५ ॥
कोशेष्वानंदकोशोऽहं विज्ञानं सूक्ष्मजातिषु ।
विवेकेषु मनश्चाहं चालकेषु समीरणः ॥ १६ ॥
स्थूलेष्वन्नस्वरूपोऽहं समष्टिषु तथेश्वरः ।
व्यष्टिषु प्राज्ञरूपोऽहमणुषु च महाविराट् ॥ १७ ॥
इंद्रियेषु मनश्चाहं भूतेष्वाकाशसंज्ञितः ।
तन्मात्राणामहं शब्दो ज्ञाताहं देवतासु च ॥ १८ ॥
तत्त्वेषु विविधेष्वेव महत्तत्त्वमहं परम् ।
गुणेषु गुणपोऽहं तु पालकेषु जनार्दनः ॥ १९ ॥
हरः संहारकर्तॄणां स्रष्टॄणां प्रपितामहः ।
कर्मणामर्यमाऽऽत्माऽहं मोहकानां च शक्तिका ॥ २० ॥
देवानां मघवाऽहं तु आदित्यानां विनायकः ।
तेजसां भानुरूपोऽहममृतेषु विधुः परः ॥ २१ ॥
अग्निः प्रतापदेष्वेव धर्मः समप्रवृत्तिषु ।
यमो यमवतां चाहं रक्षसां निर्ऋतिः स्वयम् ॥ २२ ॥
जलेषु वरुणोऽहं तु बलवत्सु समीरणः ।
निधीनां धनदाताऽहं रुद्राणां शंकरः प्रभुः ॥ २३ ॥
कामो धनुर्धराणां च रतिर्भोगेषु भोगदा ।
नागेशानामहं शेषः सर्पाणां तक्षकः स्वयम् ॥ २४ ॥
नागानां वासुकिर्नाम जंबुर्द्वीपेषु सर्वदः ।
स्वादूदकः समुद्राणां पर्वतेषु हि मेरुकः ॥ २५ ॥
पितॄणां यमरूपोऽहं वृक्षेषु शमिका मता ।
देववृक्षेषु मंदारस्तरूणां कामदायकः ॥ २६ ॥
धेनूनां कामधेनुर्या दूर्वा चौषधिषु प्रभुः ।
पक्षिषु तु मयूरोऽहं मृगाणां सिंहरूपधृक् ॥ २७ ॥
मासानां श्रावणश्चाहं चौराणां मूषकाधिपः ।
वाहनेष्वश्ववाहोऽहं सिद्धिरैश्वर्यदेषु च ॥ २८ ॥
विद्यासु बुद्धिरूपोऽहं चित्तं प्रकाशकारिणाम् ।
अहं मनश्च वेगानां मोहदेष्वभिमानकः ॥ २९ ॥
नराधिपो नराणां तु वर्णेषु ब्राह्मणोह्यहम् ।
आश्रमेषु तुरीयोऽहं पोषकेषु गृहस्थकः ॥ ३० ॥
त्यागिनामवधूतोऽहं तिथीनां च चतुर्थिका ।
प्रजापतिषु दक्षोऽहं ब्रह्मर्षिषु भृगुस्तथा ॥ ३१ ॥
नारदो दैवतर्षीणां दत्तोऽवधूतरूपिणाम् ।
कपिलस्तत्त्वविज्ञानां योगिनां शुक एव यः ॥ ३२ ॥
जनकोऽहं विदेहानां निःसंगेषु महामुने ।
सनकादय एवाऽहं ज्ञानिनां बादरायणः ॥ ३३ ॥
वसिष्ठः कर्मकर्तॄणां गाणपत्येषु मुद्गलः ।
भ्रूशुंडी चैकनिष्ठेषु ब्रह्मिष्ठानां बृहस्पतिः ॥ ३४ ॥
अन्नानां तिलरूपोऽहं गव्यानां घृतमंजसा ।
मधु सर्वरसानां च मकरो जलजात्मनाम् ॥ ३५ ॥
कौमंडली नदीनां च तीर्थेषु गाणपं परम् ।
क्षेत्राणां मयूरक्षेत्रं काशिराजः सुबुद्धिषु ॥ ३६ ॥
मयूरेशोऽवताराणां गार्ग्य उपासकात्मनाम् ।
ध्याननिष्ठेषु सर्वेषु गृत्समदोऽहमेव च ॥ ३७ ॥
सुबोधौ दैत्यजातीनां ज्ञानारिर्द्वेषकारिणाम् ।
दुर्जयेषु मनश्चाहं वर्णेष्वोंकार एव सः ॥ ३८ ॥
शुक्रोहं भाविकेष्वेव त्रिशिराः शुद्धचेतसाम् ।
उपदेशप्रदातॄणां याज्ञवल्क्यः प्रतापवान् ॥ ३९ ॥
पौराणिकेषु सूतोऽहं श्रोतॄणां शौनको मुनिः ।
सेनानीनामहं स्कंदो विष्णुर्यशस्विनामहम् ॥ ४० ॥
पापेष्वनृतरूपोऽहं कलहो भेदधारिणाम् ।
प्राप्तिषु लोभरूपोऽहं मणीनां चिंतितार्थदः ॥ ४१ ॥
ज्ञानं पवित्रं भावानां सामगायकधर्मिणाम् ।
वेदेष्वथर्वसंज्ञोऽहं शस्त्रेषु परशुः परः ॥ ४२ ॥
निर्लेपानामहं साक्षी राजश्रीषु गजस्तथा ।
विषयो भ्रांतिदानां च रंभा ह्यप्सरसामहम् ॥ ४३ ॥
गंधर्वाणां चित्ररथो वैद्यानां वैद्यनायकः ।
धन्वंतरिस्तु भिषजां समुद्रः सरसात्मनाम् ॥ ४४ ॥
स्रोतसां जाह्नवी विप्र मंत्राणामेकवर्णजः ।
सूक्तेषु ब्राह्मणस्पत्यं यज्ञेषु ज्ञानरूपधृक् ॥ ४२ ॥
प्राणेषु तु समानोऽहं शक्तिः शक्तिमतामहम् ।
बृहदारण्यकं विद्धि नानोपनिषदां परम् ॥ ४६ ॥
शास्त्रेषु योगशास्त्रं च पुराणेषु च मौद्गलम् ।
अरण्यानां महारण्यं दंडकाख्यमहं परम् ॥ ४७ ॥
नियंतॄणामहं दंडो मायाऽहं भावकारिणाम् ।
स्मृतीनां याज्ञवल्क्यस्य स्मृतिरेव परा मता ॥ ४८ ॥
गायत्री छंदसां विप्र स्वानंदो नगरात्मनाम् ।
व्याकरणमंगभूतेषु कलासु योगदा ह्यहम् ॥ ४९ ॥
नीतिज्ञेषु तथा काव्यो वृषभो भूमिधारिणाम् ।
नंदिकेशो गवां चाहं नग्नो भैरवभाविनाम् ॥ ५० ॥
एवं नानाविधाऽऽकारा विभूतीर्गणपस्य या ।
कथितुं नैव शक्या सा सारा संकथिता मया ॥ ५१ ॥
यद्यच्छ्रेष्ठतमं विप्र सा विभूतिर्न संशयः ।
लोकेषु गणराजस्य तां भावय विशेषतः ॥ ५२ ॥
मुद्गल उवाच ।
एवमुक्त्वा गणेशानो विरराम प्रजापते ।
नारदस्तं प्रणम्यैव जगाम तादृशोऽभवत् ॥ ५३ ॥
य इमां श्रावयेद्दक्ष शृणुयाद्वा प्रयत्नतः ।
न मोहं स लभेत् क्वापि ज्ञात्वा सामर्थ्यजं महः ॥ ५४ ॥
अपारमहिमायुक्ता जीवाश्च परमेश्वराः ।
ते सर्वे विघ्नराजस्य विभूतिपदधारकाः ॥ ५५ ॥
एवं ज्ञात्वा गणेशानं ये भजंति मनीषिणः ।
ते सर्वे ब्रह्मभूताश्च भविष्यंति प्रजापते ॥ ५६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन विभूतियोगो नाम दशमोऽध्यायः ॥
॥ इति योगगीतासूपनिषत्सु सुगमासु षष्ठोऽध्यायः ॥