Pageखं. ९ अ. ९ पान ३२
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
चित्तं चंचलमत्यंतं विषयेषु परायणम् ।
दुर्ग्रहं शांतिसंयुक्तं न भवेन् मुनिसत्तम ॥ १ ॥
अतो योगस्य प्राप्त्यर्थं सिद्ध्यर्थं सुगमं ततः ।
उपायं वद चित्तस्य जयार्थं वाऽपरं प्रभो ॥ २ ॥
मुद्गल उवाच ।
पंचचित्तेषु यद्बिंबं स्थितं भ्रांत्या समन्वितम् ।
चिंतामणेः समाख्यातं तस्यैव भजनं चरेत् ॥ ३ ॥
तेन चित्तं जयेद्योगी नान्यं पश्यामि भो विधे ।
विना चित्तजयं योगदायकं नात्र संशयः ॥ ४ ॥
दक्ष उवाच ।
सुगमं वद मार्गं मे सर्वेभ्यो ब्रह्मदायकम् ।
संसेव्य जंतवः सर्वे ब्रह्मीभूता भवंति वै ॥ ५ ॥
मुद्गल उवाच ।
अज्ञानेन समायुक्तो नरो विषयलंपटः ।
शिश्नोदरपरो नित्यं योगं नेच्छति कर्हिचित् ॥ ६ ॥
तस्य सकामिकं कर्म? सुखदं बोधयेत् परम् ।
अलभ्यप्रापकं हृद्यमाचरेल्लोभसंयुतः ॥ ७ ॥
अलभ्यलभ्यलोभेन त्यक्त्वा पापं महाखलः ।
सत्कर्मनिरतो भूत्वा चरेत् पुण्यं निरंतरम् ॥ ८ ॥
ततस्तेनैकभावेन पापं नश्येन्निरंतरम् ।
शुद्धोऽत्यंतं नरः कुर्यात् कर्म कामयुतं परम् ॥ ९ ॥
समाप्नुयात्ततोऽलभ्यं हृद्यं चेत् पुनरेव सः ।
विश्वासेन समायुक्तः कुर्यात् ?कर्म विशेषतः ॥ १० ॥
अथवा नैव संप्राप्तमलभ्यं तेन तं तदा ।
उपादिशेद्विशेषेणाधिकं सत्कर्म चाचर ॥ ११ ॥
अनंतजन्मभिः पापं त्वया कृतमसंशयम् ।
अपारमंतरायो भवति ते तद्विघातकम् ॥ १२ ॥
एवं कर्मपरः सोऽपि दुःखितोऽत्यंतमाचरेत् ।
पापनाशार्थमानंदात्तेन शुद्धांतरो भवेत् ॥ १३ ॥
सत्कामिकपरस्यास्य कर्मात्यंतप्रभावतः ।
तस्य बुद्धिर्भवेत् दक्ष निःकामिकपरायणा ॥ १४ ॥
जन्ममृत्युप्रदा भोगा भुक्ता विविधजन्मसु ।
अपारसुखदं ब्रह्म न प्राप्तं देहधारिणा ॥ १५ ॥
अलभ्यं न मया प्राप्तं प्रारब्धाधीनतोऽथवा ।
प्रारब्धं चालितुं कोऽपि न समर्थो भविष्यति ॥ १६ ॥
अतो निःकामिकं कर्म करोमि नित्यमादरात् ।
जन्ममृत्युविहीनोऽहं भविष्यामि न संशयः ॥ १७ ॥
ब्रह्मसुखमपारं यल्लब्ध्वा ब्रह्मपरायणः ।
ब्रह्मीभूतो भविष्यामि यत्नं करोमि तत्परः ॥ १८ ॥
एवं धार्य परित्यज्य कामान् सेवेत् स पंचकान् ।
देवान् गणेशमुख्यांश्च मुक्तिमार्गपरायणः ॥ १९ ॥
सालोक्यादिभवं सौख्यमिच्छति नित्यमादरात् ।
क्रमेण तपसा युक्तो प्रभवेन् मानवस्ततः ॥ २० ॥
विभूतिर्ब्रह्मणः प्रोक्ता नानारूपा प्रजापते ।
तत्र तस्य रमेच्चित्तमैश्वर्यैर्युक्तभावतः ॥ २१ ॥
इमे समर्थरूपा वै ब्रह्मणः परमात्मनः ।
अंशतेजोधरास्तस्य सर्वाधीशा भवंत्यतः ॥ २२ ॥
एवं सर्वत्र संचिंत्य तेषां पूजापरो भवेत् ।
लभेत्तत् कृपया दक्ष चित्तशुद्धिं नरोत्तमः ॥ २३ ॥
विचारेण गणेशानं ज्ञात्वा संपूर्णमंजसा ।
सर्वपूज्यादिचिह्नैस्तं श्रेष्ठं तत्र रतो भवेत् ॥ २४ ॥
ज्ञात्वा स्वानंदनाथं तं स्वानंदार्थं विशेषतः ।
प्रभजेद्गणराजं स निष्कामभक्तिसंयुतः ॥ २५ ॥
ततोऽहर्निशमत्यंतं भजेत्तत्तपसा युतः ।

Pageखं. अ. पान ३३
मोक्षार्थं सर्वभावेन विरक्तो विषयादिषु ॥ २६ ॥
गणेशकृपया तस्य चित्तशुद्धिर्भवेत् परा ।
तया सर्वस्वभावेन भजेत्तं गणनायकम् ॥ २७ ॥
विश्वं चराचरं सर्वं जानीयात्तत्स्वरूपकम् ।
सर्वेषां हितभावेन भजेत्तं द्विरदाननम् ॥ २८ ॥
कस्यापि संभवेत् दुःखं तादृशं प्रचरेन्न सः ।
सहन् सन् द्वंद्वजं भावमार्जवेन समन्वितः ॥ २९ ॥
देवकार्यं विना साधुर्न छिंद्यात् स कदाचन ।
पत्रादिकं विशेषेण विश्वरूपपरायणः ॥ ३० ॥
एकांते निर्जने स्थाने स्थित्वा ध्यात्वा गजाननम् ।
पूजयेद्भक्तिसंयुक्तो ध्यानं कुर्याद्विशेषतः ॥ ३१ ॥
अनन्यमनसा देवं भजेत्तं भावधारकः ।
शमदमपरो भूत्वा चित्तनिग्रहमाचरेत् ॥ ३२ ॥
दुर्जयं चित्तमत्यंतं ज्ञात्वा वायुनिबंधतः ।
प्राणायामपरो भूत्वा जयेत्तन्नात्र संशयः ॥ ३३ ॥
अथ वायुनिरोधस्य वदामि मार्गमुत्तमम् ।
येन पापं परित्यज्य शुद्धचित्तो नरो भवेत् ॥ ३४ ॥
पूरयेद्वामनासायां वायुं तस्माच्चतुर्गुणम् ।
धारणं तस्य कुर्यात् स स्वोदरे नियतो भवेत् ॥ ३५ ॥
पूरकाद् द्विगुणं कुर्याद्रेचकं च प्रजापते ।
पुनर्नसा दक्षिणया पूरयेत् कुंभकं चरेत् ॥ ३६ ॥
वामया रेचकं चैव पुनः पुनर्निरंतरम् ।
प्राणायामं चरेद् धीमान् पापहीनो नरो भवेत् ॥ ३७ ॥
एवं त्रैकालिकं कुर्यात् प्राणायामं विशेषतः ।
नातिनिरोधसंयुक्तं वायुं हठसमन्वितः ॥ ३८ ॥
अतिहठेन संरुद्धो वायू ?रोमभ्य एव च ।
निःसृत्य कुष्ठसंयुक्तं तं करोति न संशयः ॥ ३९ ॥
नाभिमूलस्थिता नाडी इडा च पिंगलाऽपरा ।
सुषुम्णा तत्र रोधेन मार्गो भवति निर्मलः ॥ ४० ॥
अपानो नाभिमूलस्थो ह्यधो गच्छति सर्वदा ।
प्राण ऊर्ध्वं तथा जन्तोर्नाडीभिः प्रेरितः सदा ॥ ४१ ॥
मार्गरोधनभावेन नाड्यां मार्गो भविष्यति ।
वायुर्मूलं समाश्रित्य तिष्ठति क्रमतस्ततः ॥ ४२ ॥
तत्र लघ्वक्षराण्येव द्वादशापि प्रतिष्ठति ।
वायुश्चेत् स लघुः प्रोक्तः प्राणायामश्च योगिभिः ॥ ४३ ॥
ततो द्विगुणतस्तिष्ठेद्यदा वायुः सुरोधितः ।
मध्यमः स समाख्यातस्त्रिगुणादुत्तमोत्तमः ॥ ४४ ॥
एवं प्राणमपानं च स्वमूले संनयेद् बुधः ।
तयो रोधनभावेन मूलगौ तौ भविष्यतः ॥ ४५ ॥
एवं क्रमेण मूलेऽयं वायुर्मुहूर्तं संस्थितः ।
तदा समानगा नाडी भिद्यते तत्र संस्थिता ॥ ४६ ॥
सा सुषुम्णा समाख्याता तत्र संमिलितौ क्रमात् ।
प्राणापानौ समौ भूत्वा तद्रूपौ तौ भविष्यतः ॥ ४७ ॥
त्रिकालज्ञः स्वयं सिद्धो भविष्यति नरोत्तमः ।
वायुसाधनपात्रत्वं प्राप्य तेजःसमन्वितः ॥ ४८ ॥
ततः स्वाधीनतां यातौ प्राणापानौ विशेषतः ।
स नयिष्यति तौ यत्र क्रमात्तत्र गमिष्यतः ॥ ४९ ॥
ततो ध्यानपरो भूत्वा षट्चक्रभेदने रतः ।
चक्रस्थं स्वस्वरूपं स पश्येत्तद्वायुना गतः ॥ ५० ॥
एवं क्रमेण योगींद्रो गच्छेद्भेद्य प्रजापते ।
सहस्रारे स चक्राणि तत्र पश्येद्गजाननम् ॥ ५१ ॥

Pageखं. ९ अ. ९
तत्र क्रमेण वायुं संस्थापयेत् सुसमाधिना ।
वायुना संयुतस्तिष्ठेत् पश्यन् विघ्नेश्वरं परम् ॥ ५२ ॥
क्रमाद्वायुबलेनैवं शुद्धचित्तो भविष्यति ।
पश्येत् सर्वत्र भावेषु स्थितं ब्रह्म सनातनम् ॥ ५३ ॥
ततः स्वाधीनतायुक्तः प्रभवेत् स्वेन तेजसा ।
यं यमिच्छेत् स तं तं तु सद्यो वै सफलं भवेत् ॥ ५४ ॥
किंचिदिच्छेन्न यो योगी तदा योगमवाप्नुयात् ।
नो चेच्छंदरतो भूत्वा भोगयुक्तः पुनः पतेत् ॥ ५५ ॥
साधनं द्विविधं प्रोक्तं क्रियारूपं प्रजापते ।
बाह्यं कर्मस्वरूपाख्यं तपोयुक्तं स्वधर्मजम् ॥ ५६ ॥
आंतरं वायुरोधाख्यं सर्वसिद्धिप्रदायकम् ।
ताभ्यां चित्तं विनिर्गृह्य स्ववशं कारयेन्नरः ॥ ५७ ॥
बाह्यकर्मरताज्जंतोरांतरं शीघ्रसिद्धिदम् ।
सहस्राधिकभावाख्यं प्रोक्तं योगींद्रमुख्यकैः ॥ ५८ ॥
अतः परं तृतीयं ते साधनं कथयाम्यहम् ।
येन योगींद्रसेव्यः स ध्रुवं भवति मानवः ॥ ५९ ॥
चित्तशुद्धेश्च कार्यार्थं कर्म द्विविधमुच्यते ।
शुद्धचित्तो नरः पश्चात् संपश्येद्ब्रह्म शाश्वतम् ॥ ६० ॥
सर्वत्र पूर्णभावेन संस्थितं परमव्ययम् ।
अवयवादिभिर्हीनं तत्र लीनो भवेत् स्वयम् ॥ ६१ ॥
एतावान् फलादाताऽयं क्रियायोगः प्रकीर्तितः ।
बाह्यांतरात्मकः पूर्णस्ततोऽन्यत् साधनं चरेत् ॥ ६२ ॥
चित्तं रसयुतं कुत्र जायते योगिनः परम् ।
तज्जयेद्ब्रह्मभावेन शमदमपरायणः ॥ ६३ ॥
स्वधर्मसंयुतो भूत्वा देहनिर्वाहकं चरेत् ।
देहस्य शमनं तच्च जायते स दमः स्मृतः ॥ ६४ ॥
विषयार्थं मनस्तस्य संकल्पं यत् समाचरेत् ।
तन्नेच्छेच्चित्तमागृह्य कुर्याद्ब्रह्मपरायणम् ॥ ६५ ॥
अयं शमः समाख्यातस्तेन चित्तं भवेत् परम् ।
स्वाधीनं सर्वभावं च त्यक्त्वा ब्रह्मपरं भवेत् ॥ ६६ ॥
शनैः शनैरुपरमेद्विषयेभ्यो महात्मवान् ।
धृतिं योगमयीं धृत्वा भवेद्योगी स मानवः ॥ ६७ ॥
कर्ममार्गं परित्यज्य द्विविधं योगिसत्तमः ।
ध्यानयोगपरो भूत्वा तिष्ठेन्नित्यं वदामि तम् ॥ ६८ ॥
मनोवाणीविहीनं यद्ब्रह्म तत्र समाचरेत् ।
ध्यानं संकल्पत्यागाख्यं विषयेषु निरंतरम् ॥ ६९ ॥
यो यश्चित्तेन संकल्पः क्रियते विषयेषु च ।
तत्तत्संकल्पहीनं स कारयेद्योगतत्परः ॥ ७० ॥
एवं चित्तं नरस्यैव स्वाधीनं जायते सदा ।
यदा धर्तुं स नो शक्तस्तदान्यदाचरेद्बुधः ॥ ७१ ॥
देहेंद्रियाणि संगृह्य तिष्ठेद्भुमौ महायशाः ।
न चलेत् स्थाणुवत् सोऽपि क्रियां नैव समाचरेत् ॥ ७२ ॥
तत्र यन्मिलितं चान्नं जलपानादिकं चरेत् ।
परेच्छया समायुक्तः सदा तिष्ठेन् महायशाः ॥ ७३ ॥
केनापि जलपानादि न दत्तं तादृशो वसेत् ।
न तदर्थं श्रमेत् सोऽपि नेच्छेत् प्रारब्धधारकः ॥ ७४ ॥
सर्पवृश्चिकव्याघ्राद्यैः पीडितो यदि मानवः ।
नानाप्रहारयोगैश्च मानवादिभिरेव वा ॥ ७५ ॥
तथापि न चलेत् सोऽपि स्वस्थानाज्जडवत्परः ।
देहप्रारब्धमाश्रित्य न तेषु क्रोधमाचरेत् ॥ ७६ ॥
पूर्वजन्मकृतं कर्म मया तेन प्रबोधितः ।

Pageखं. ९ अ. ९ पान ३५
इमे संपीडयंत्येवमेषां दोषो न विद्यते ॥ ७७ ॥
अथवा सात्त्विकैस्तत्र पूजितः सर्वभावतः ।
नित्यं नानाजनैः सोऽपि सेवितो न चलेत्तदा ॥ ७८ ॥
पूर्वजन्मकृतं कर्म प्रेरितास्तेन मानवाः ।
मया मां पूजयंत्येव गुण एषां न विद्यते ॥ ७९ ॥
एवं मनसि संधार्य तेषां नेच्छेच्छुभं कदा ।
द्वंद्वमेवं परिगृह्य तिष्ठेन्नित्यं महायशाः ॥ ८० ॥
अनेन विधिना सोऽपि स्वल्पकालेन भो विधे ।
चित्तं जयेन्न संदेहः शांतिं पूर्णामवाप्नुयात् ॥ ८१ ॥
नान्यत् किंचिच्चरेत् कर्म न ध्यानादिकमादरात् ।
एवं शमदमौ धृत्वा भवेद्योगी स मानवः ॥ ८२ ॥
विचारं ब्रह्मणस्तत्र कुर्यान्नित्यं विशेषतः ।
कीदृशं ब्रह्म हृत्स्थं मे वेदाद्यैः प्रतिपादितम् ॥ ८३ ॥
पंचभूमिमतिक्रम्य तिष्ठेत् क्रमेण मानवः ।
नानाब्रह्मणि पश्यन् सन्नंते शांतिमवाप्नुयात् ॥ ८४ ॥
शांतियुक्तो नरः पश्चात् संत्यजेत्तां महाद्भुताम् ।
जडावस्थां पुनः सोऽपि यथेच्छाचारगो भवेत् ॥ ८५ ॥
हृदि चिंतामणिं दृष्ट्वा पंचभूमिप्रचालकम् ।
शांत्या युक्तो भवेन्नित्यं स्वाधीनहृदयः परः ॥ ८६ ॥
दृष्ट्वा ब्रह्म स्वयं योगी रसहीनो भवेन् मुदा ।
सर्वत्र नात्र संदेहः शांत्या सर्वं समाचरेत् ॥ ८७ ॥
अनेन विधिना दक्ष ज्ञानी पापपरायणः ।
क्रमेण साधयेद्योगं स योगी संभवेत् परः ॥ ८८ ॥
एवं कर्तुमशक्तश्चेत्तदा श्रुत्वा महामतिः ।
इमं योगं स्वयं तत्र निष्ठायुक्तो भवेत् सदा ॥ ८९ ॥
स्वधर्मनिरतो भूत्वा योगमिच्छेन्निरंतरम् ।
निंद्यभोगान् प्रभुंजन् सन्नंते स्वानंदगो भवेत् ॥ ९० ॥
गणेश्वरं तत्र दृष्ट्वा योगयुक्तो भविष्यति ।
ज्योतिर्देहधरो भूत्वा प्रभजेद्गणनायकम् ॥ ९१ ॥
ब्रह्म कल्पमयं स्थित्वा कालं तत्र महामतिः ।
तद्देहे लीनतां प्राप्य ब्रह्मभूतो भविष्यति ॥ ९२ ॥
एवं कर्तुमशक्तश्चेत्तदा स धर्मसंयुतः ।
कर्माचरेत् प्रजानाथ ब्रह्मार्पणविधानतः ॥ ९३ ॥
तेनैव शुक्लगत्या स ब्रह्मीभूतो नरो भवेत् ।
निःकामयोगमार्गेण सदा ब्रह्मणि तत्परः ॥ ९४ ॥
एवं कर्तुमशक्तश्चेत्तदाऽहं ब्रह्मभावतः ।
त्रिविधं फलमुत्सृज्य कर्मजं योगमाप्नुयात् ॥ ९५ ॥
कर्मत्यागबलेनैवाहं ब्रह्म निश्चयेन सः ।
क्रमेण कर्मसंयुक्तो भविष्यत्यन्यजन्मनि ॥ ९६ ॥
निःकामकर्मकर्ता स पुनरन्यभवे नरः ।
योगरससमायुक्तो भवेद्विषयनिंदकः ॥ ९७ ॥
एवं क्रमेण शांतिं स लभेत् पूर्णां न संशयः ।
क्रमार्थं रचितं सर्वं नानामतसमन्वितम् ॥ ९८ ॥
सुगमं सर्वभावेषु गणेशभजनं परम् ।
तेन योगी भवेन्नूनं सर्वशास्त्रेषु संमतम् ॥ ९९ ॥
यत्किंचिद् गणराजस्य व्रतपूजादिकं प्रभोः ।
कीर्तनश्रवणाद्यं तु ब्रह्मीभूतप्रदायकम् ॥ १०० ॥
नानाविषयसंयुक्तो नरः स्मरेद्गणाधिपम् ।
अहर्निशं तदास्यांते गणेशस्मरणं भवेत् ॥ १०१ ॥
तेन स्वानंदगो भूत्वा योगमभ्यस्य तन्मयः ।
ब्रह्मकल्पांतभावे स भविष्यति न संशयः ॥ १०२ ॥

Pageखं. ९ अ. १०
स्मरणं गणराजस्य प्रकुर्यान्नित्यमादरात् ।
तस्यांते गणराजस्य स्मृतिं दद्यान्नराय सः ॥ १०३ ॥
अतोऽहर्निशमेकं तं संस्मरेन् मानवः परम् ।
नानायोगादिकं सर्वं साध्य योगिसमो भवेत् ॥ १०४ ॥
आयासेन विहीनोऽपि सदा विषयलंपटः ।
गणेशस्मरणे सक्तः सः शुकसमतां व्रजेत् ॥ १०५ ॥
शिवविष्णुमुखादीनां नरो यः स्मरणं चरेत् ।
अंते तेषां स्मृतिं तस्मै स दद्याच्चित्तगः प्रभुः ॥ १०६ ॥
तेषां लोकं समासाद्य भुक्त्वा भोगान् मनोहरान् ।
प्रपतेन्नाऽत्र संदेहो मृत्युलोके विशेषतः ॥ १०७ ॥
पुराणेषु प्रपठ्यंते त्रिगुणानां लयाः सदा ।
अतः स जन्ममृत्युभ्यां युक्तो भवति तद्गतः ॥ १०८ ॥
अतः सारं समाख्यातं गणेशभजनं परम् ।
तेनाज्ञानसमायुक्तो नरो ब्रह्ममयो भवेत् ॥ १०९ ॥
एतत्ते कथितं दक्ष योगप्राप्त्यर्थमादरात् ।
अज्ञानसंयुतस्यापि ब्रह्मीभूतप्रदायकम् ॥ ११० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामतार्थशास्त्रे
अज्ञानिनां क्रमयोगवर्णनं नाम नवमोऽध्यायः ॥
॥ इति योगगीतासूपनिषत्सु सुगमासु पंचमोऽध्यायः ॥