॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
योगशांतिं समाश्रित्य योगमभ्यस्य नित्यदा ।
ब्रह्मणि ब्रह्मभूतः स योगभ्रष्टः कथं भवेत् ॥ १ ॥
मायामयं जगत् सर्वं नानाभ्रमसमन्वितम् ।
ज्ञात्वा स्वयं पुनर्भ्रष्टः कौतुकं वद मे मुने ॥ २ ॥
मुद्गल उवाच ।
ब्रह्मणि ब्रह्मभूतस्य योगिनो बिंबसंस्थितम् ।
बुद्धौ तस्यां विमोहेन मोहयुक्तं प्रजापते ॥ ३ ॥
दृष्ट्वा नानाविधान् भोगान् स्वयं मोहेन मोहितः ।
तेषु भूत्वा रसयुतो तानिच्छति निरंतरम् ॥ ४ ॥
तत्र तस्य हृदि दक्ष विवेकः संस्थितो भवेत् ।
तस्य रूपं प्रवक्ष्यामि शृणु बुद्धिविशारद ॥ ५ ॥
अहं ब्रह्मणि योगेन ब्रह्मीभूतो न संशयः ।
पापपुण्यादिकं मे न शुभाशुभकृते भवेत् ॥ ६ ॥
यदा भोगं परित्यज्य तिष्ठामि नित्यमादरात् ।
तदा योगस्य वृद्धिर्मे न भविष्यति निश्चितम् ॥ ७ ॥
यदा नित्यं प्रभुंजाने भोगान्नानाविधान् परान् ।
पापपुण्यमनादृत्य तदा योगक्षयो न च ॥ ८ ॥
अतोऽहं योगमृत्सृज्य किमर्थं दुःखसंयुतः ।
तिष्ठामि शांतिमाश्रित्य विधिनिषेधसंयुतः ॥ ९ ॥
एवं मनसि संधार्य योगी भोगेषु लालसः ।
विविधेष्वेव भवति रसयुक्तः क्रमेण सः ॥ १० ॥
अयं मोहः समाख्यातो योगिहृद्भ्रांतिदायकः ।
तेन शांतिं परित्यज्य पापपुण्यपरो भवेत् ॥ ११ ॥
ततः कामं समाश्रित्य देहसौख्यप्रदायकम् ।
इच्छेत् स विविधान् भोगान् पुण्यपापपरायणः ॥ १२ ॥
भोगार्थं यतमानस्य योगिनः क्रमभावतः ।
तत्र विघ्नः कृतः केन ततः क्रोधयुतो भवेत् ॥ १३ ॥
येन विघ्नः कृतस्तेषु भोगेषु तस्य भोगिनः ।
तं शत्रुं स हि जानाति भिन्नभावपरायणः ॥ १४ ॥
ततो ह्यज्ञानसंभूतिः क्रमेणोत्पद्यते परा ।
योगिनश्च तया युक्तो हंतुं तं यतते सदा ॥ १५ ॥
शत्रुशिक्षार्थमर्थान् स नानाभावसमन्वितः ।
संपाद्य तं तु निर्जित्य भोगान् भुंक्ते प्रयत्नतः ॥ १६ ॥
स्वपरज्ञानहीनत्वं गतं तस्य प्रजापते ।
तदेवाज्ञानसंभूतिः शत्रुमित्रप्रदर्शिनी ॥ १७ ॥
ततः शांतेः क्रमेणास्य विस्मृतिर्जायते परा ।
तया युतः स्वयं देहं मन्यते सत्यरूपकम् ॥ १८ ॥
देहे संतोषमापन्ने कृतकृत्यमिव स्थितम् ।
मन्यते विपरीते स आत्मानं भाग्यवर्जितम् ॥ १९ ॥
ततो योगं परित्यज्य स्वयं बिंबी प्रजायते ।
बिंबे तन्मयभावेनागमिष्यति न संशयः ॥ २० ॥
एवं क्रमेण योगी स शांतिहीनस्वभावतः ।
सदा तिष्ठति तं योगं नाश्रयते कदाचन ॥ २१ ॥
सुखयुक्ते शरीरे स सुखयुक्तो भवेत् स्वयम् ।
दुःखयुक्ते तथा दुःखी नानाभावपरायणः ॥ २२ ॥
लेशमात्रमयं शांतिं लभते न कदाचन ।
असंतोषयुतो नित्यं भ्रमते भोगलिप्सया ॥ २३ ॥
भोगार्थं विविधान्येव नित्यं पापानि चादरात् ।
चरते सर्वपुण्यानि विधिनिषेधवर्जितः ॥ २४ ॥
वर्णाश्रमयुतो योगी स्वधर्मं त्यज्य नित्यदा ।
पापं चरति वा पुण्यं स्वधर्मः संयुतः कदा ॥ २५ ॥

Pageखं. ९ पान ३१
योगान् भुंक्ते विशेषेण मोहयुक्तो निरंतरम् ।
योगभ्रष्टोऽयमाख्यातस्त्यक्त्वा योगं नरो भवेत् ॥ २६ ॥
हृदि तस्य विवेकश्च सदा तिष्ठति मोहदः ।
पुण्यपापविहीनोऽहं ब्रह्मैव ब्रह्मभावितः ॥ २७ ॥
अंते स नरकान् गच्छेद् द्वंद्वदुःखप्रदायकान् ।
यातनां घोररूपां तु पतेद्भुक्त्वा धरातले ॥ २८ ॥
दक्ष उवाच ।
योगभ्रष्टगतिं ब्रूहि योगींद्र दयया पराम् ।
कथं नरकगो भूत्वा यातनां प्राप्नुयात् परम् ॥ २९ ॥
कर्मफलपरित्यागादिहजन्मधरः कथम् ।
संभवेद्विस्मयो भाति चेष्टितं योगिनः परम् ॥ ३० ॥
मुद्गल उवाच ।
ब्रह्मणि ब्रह्मभूतस्य पुनर्विषयसेवनात् ।
ब्रह्मणो भक्तिहीनस्यांते स्थानं न भवेत् किल ॥ ३१ ॥
अपारपुण्ययोगेन ब्रह्मणि देहिनः कदा ।
रसोत्पत्तिर्भवेद्दक्ष सर्वश्रेष्ठस्य योगदा ॥ ३२ ॥
देहविषयसंयोगाद् द्वंद्वभावपरात्मनः ।
नानापापादियोगेन पुण्यं स्वल्पं प्रहीयते ॥ ३३ ॥
मृतोऽयं शिवलोके वै वैकुंठे सौरशाक्तयोः ।
ब्रह्मण इंद्रलोके वा पतेदंते न संशयः ॥ ३४ ॥
शोकहर्षप्रदं विश्वं नानाद्वंद्वसमन्वितम् ।
नरको नात्र संदेहो योगिनां शास्त्रसंमतम् ॥ ३५ ॥
उत्पत्तिनाशसंयुक्तं त्यक्त्वा ब्रह्मपरायणः ।
ब्रह्मणि ब्रह्मभूतः स पुनर्द्वंद्वपरो यतः ॥ ३६ ॥
विकुंठादिपदे संस्थो द्वंद्वं भुंक्ते निरंतरम् ।
उत्पत्तिनाशसंयुक्तं नानाभोगपरायणः ॥ ३७ ॥
अतो योगी प्रजानाथ स्वर्गाख्यान्नरकान् परान् ।
भुक्त्वा द्वंद्वमयान् पश्चादिह जन्मधरो भवत् ॥ ३८ ॥
भवेद्योगिकुले तस्य जन्म वा तापसे कुले ।
ऋद्धिमतां स तत्रापि पुनर्योगं चरिष्यति ॥ ३९ ॥
पूर्वसंस्कारयोगेन न भोगे स रमेत् कदा ।
चित्तं तस्य महायोगी प्रभवेत् स्वल्पयोगतः ॥ ४० ॥
पुनर्न योगभ्रष्टः स संभवेद्ब्रह्मणः सुत ।
शांत्यायुक्तस्वभावेन शरीरं पोषयेन् मुदा ॥ ४१ ॥
अंते ब्रह्मणि योगी स तदाकारो भवेत् परम् ।
योगसंस्कारपुण्येन स्थितिं लब्ध्वा महामतिः ॥ ४२ ॥
एतत्ते कथितं पूर्णं योगभ्रष्टस्य चेष्टितम् ।
किं पुनः श्रोतुमिच्छा ते वद धातर्वदाम्यहम् ॥ ४३ ॥

॥ ॐ तत्सदिति श्रीमदात्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
योगभ्रष्टचरितनिरूपणं नाम अष्टमोऽध्यायः ॥
॥ इति योगगीतासूपनिषत्सु सुगमासु चतुर्थोऽध्यायः ॥