॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
स्थितिं वद महायोगिन् जीवन्मुक्तस्य सौख्यदाम् ।
शुभाशुभकृतं तेन कुत्र गच्छति तत्परम् ॥ १ ॥
कायिकं वाचिकं मानसिकं सांसर्गिकं प्रभो ।
कर्म योगिकृतं सर्वं कीदृशं तस्य का गतिः ॥ २ ॥
मुद्गल उवाच ।
जीवन्मुक्तः स्वयं योगी स्वेच्छाचारी भवेत् सदा ।
प्रारब्धप्रेरितः साक्षाद् वर्तते नित्यमादरात् ॥ ३ ॥
स्वयं ब्रह्मणि संस्थश्च बिंबं चित्ते प्रतिष्ठति ।
योगिनस्तत्कृतं सर्वं न कदा बंधदं भवेत् ॥ ४ ॥
नरवत् सर्वकर्ताऽपि तथाऽपि दोषवर्जितः ।
ब्रह्मणि ब्रह्मभूतत्वाच्छुभाशुभविवर्जितः ॥ ५ ॥
प्रारब्धेन स्वयं योगी प्रेरितः पुण्यमाचरेत् ।
तीर्थयात्रादिकं सर्वं यज्ञदेवार्चनादिकम् ॥ ६ ॥
सदा शौचसमायुक्तो नित्यं धर्मपरायणः ।
तथापि पुण्यजं भोगं भुनक्ति नैव निश्चितम् ॥ ७ ॥
अथवा पूर्वजेनैव प्रारब्धेन नियंत्रितः ।
पापानि नित्यमानंदात् प्रकुर्याद्विविधानि सः ॥ ८ ॥
ब्रह्महत्यादिकं सर्वं मातृगमनकादिकम् ।
मद्यपानादिकं चौर्यं प्रकुर्याद् दैवयोगतः ॥ ९ ॥
एवं पापसमाचारो यदि तिष्ठति मानवः ।
योगी पापफलं नैव भुनक्ति नरवत् कदा ॥ १० ॥
पूर्वजन्मार्जितेनैव प्रारब्धेन प्रजापते ।
कारितं योगिना तत्र तेन किंचित् कृतं न च ॥ ११ ॥
मरणे या मतिः प्राप्ता तादृशीं लभते गतिम् ।
नरो ह्ययोगयुक्तो यो योगी ब्रह्मैव जायते ॥ १२ ॥
इदं संशयनाशार्थं कथितं ब्रह्मणः सुत ।
योगिनां कर्मजं सर्वं माहात्म्यं लेशतो मया ॥ १३ ॥
योगी योगसमायुक्तो न पापानि कदाचन ।
चरति धर्मनिष्ठः स भवत्यत्र न संशयः ॥ १४ ॥
लोकोद्धारकराः सर्वे योगिनः परिकीर्तिताः ।
नाचरंति कदा पापमहिंसादिसमन्विताः ॥ १५ ॥

Pageखं. ९ अ. ७ पान २५
फलहीनस्वभावेन धर्मं चरति नित्यदा ।
योगी लोकोपकारार्थं स्वयं ब्रह्मपरायणः ॥ १६ ॥
कदाचित् पूर्वसंस्कारात् पापं तेन कृतं परम् ।
न तत्र पापयुक्तोऽसौ तदर्थो वर्णितः पुरा ॥ १७ ॥
किमर्थं प्राणिनां योगी दुःखदायकमाचरेत् ।
पापं पापसमायुक्तो न भवेन्निश्चितं पुरा ॥ १८ ॥
सर्वत्र गणनाथं स पश्यत्यनन्यचक्षुषा ।
पुण्येन सुखसंयुक्तं विश्वं भवति तच्चरेत् ॥ १९ ॥
प्रारब्धं योगिनां दक्ष न भवेत् पापकारकम् ।
पुण्यचेष्टासमायुक्तं तेषां प्रारब्धमंजसा ॥ २० ॥
योगार्थं धर्मसंयुक्तो ब्रह्मार्पणविधानतः ।
यतते जन्मसु प्राज्ञस्तदा योगी भवेन्नरः ॥ २१ ॥
तस्य प्रारब्धकं दक्ष कुतो दुर्बुद्धिदायकम् ।
भवति च महायोगी धर्मयुक्तो भवेत् सदा ॥ २२ ॥
अथ योगिजनानां ते स्थितिं वदामि सर्वदा ।
क्रमयुक्तो यथा योगी भ्रांतो नैव भवेत् कदा ॥ २३ ॥
साधयित्वा महायोगं चित्तनिरोधकारकम् ।
पंचविधं परित्यज्य चित्तं योगी भवेन्नरः ॥ २४ ॥
चित्ते चिंतामणिं ज्ञात्वा सचित्तः सहसा गतः ।
तदाकारः स वै योगी तत्र ब्रह्मणि संरतः ॥ २५ ॥
प्रारब्धं योगिनां नास्ति भोगदं शास्त्रसंमतम् ।
यदा हठयुतो योगी भवेत् प्रारब्धचालकः ॥ २६ ॥
देहपातं प्रकुर्याच्चेदात्महत्यां लभेन्न च ।
आयुषा संयुतो वाऽपि देहं त्यजति निश्चितम् ॥ २७ ॥
तथापि योगसंयुक्तो न देहं त्यजति प्रभुः ।
न प्रारब्धमतिक्रम्य करोति किंचिदंजसा ॥ २८ ॥
शांतियुक्तस्वभोवन तिष्ठत्यत्र न संशयः ।
यद्भावि तद्भवत्येव मायामोहविवर्जितः ॥ २९ ॥
देहपातेन किं ग्राह्यं देहरक्षणतस्तथा ।
रचितं गणनाथेन सदा भवतु तादृशम् ॥ ३० ॥
एवं निश्चित्य चित्तेन शांतियुक्तस्वभावतः ।
आचरेद्योगसंयुक्तः स्वधर्मे संस्थितां क्रियाम् ॥ ३१ ॥
वर्णाश्रमयुतो योगी भवेद्यदि स सर्वदा ।
तदा स्वधर्मजं कुर्यात् कर्म निःसंगभावतः ॥ ३२ ॥
देहः कर्ममयः प्रोक्तस्तस्थोऽकर्मी कुतो भवेत् ।
व्यवस्थासंभवं कर्म कृतं भवति न ह्यपि ॥ ३३ ॥
यदि कर्म परित्यज्य तिष्ठेद्योगपरायणः ।
तदा देहनिपातेन युक्तो भवेन्न संशयः ॥ ३४ ॥
अन्नभक्षणरूपं यद्भवति कर्म निश्चितम् ।
जागृत्स्वप्नादिकं सर्वं त्यक्त्वा जीवति तत्कथम् ॥ ३५ ॥
क्रियतेऽनेन यत्किंचित् सा क्रिया परिकीर्तिता ।
अतः कर्ममयो देहस्तेन धर्मं समाचरेत् ॥ ३६ ॥
देहत्यागे समुद्युक्तो यदि योगी भवेत् प्रभो ।
सहने द्वंद्वभावस्य न समर्थः स वै स्मृतः ॥ ३७ ॥
अशांतिसंयुतः सोऽपि योगहीनो यथा नरः ।
तथा द्वंद्वं समालोक्य सहने न समर्थकः ॥ ३८ ॥
गणेशेन कृतं तस्येच्छया सर्वं च यद्भवेत् ।
भवतु तादृशं सर्वं सहे नित्यं सुशांतिगः ॥ ३९ ॥
स योगी शांतिहीनो न प्रभवेत् क्वचिदंजसा ।
ब्रह्मभूतो महाश्रेष्ठः पावनः सर्वदेहिनाम् ॥ ४० ॥
अतो वर्णाश्रमस्थो यो योगी भवेत् स तत् क्रियाम् ।

Pageखं. अ. पान २६
ब्रह्मार्पणतया कुर्याद् हृदि ध्यात्वा गजाननम् ॥ ४१ ॥
यदि स्वधर्मसंयुक्तं कर्म नैव समाचरेत् ।
तमक्रियं समालोक्यान्ये त्यजेयुः स्वधर्मकम् ॥ ४२ ॥
अतो लोकोपकारार्थं योगी कर्म समाचरेत् ।
अन्यान् कर्मयुतान् कुर्यात् स्ववशान् धर्मपालकः ॥ ४३ ॥
सर्वेभ्यश्चाधिको योगी कुर्यात् सत्कर्म धर्मदम् ।
तादृशं कर्म सर्वेऽपि करिष्यंति विशेषतः ॥ ४४ ॥
तेन प्रामाण्यमानंदात् कृतं कर्म प्रजापते ।
तदेव सर्वलोकाश्च मान्यं कुर्वंति निश्चितम् ॥ ४५ ॥
ब्रह्मार्पणतया कर्म बंधदं न भवेत् कदा ।
ब्रह्मप्राप्तिकरं तस्य फलं प्रोक्तं मनीषिभिः ॥ ४६ ॥
योगिभिश्च कृतं कर्म लोकसंग्रहकारणात् ।
असक्तमनसा नित्यं नैमित्तिकं न बंधदम् ॥ ४७ ॥
सदा ब्रह्ममयत्वेन तेन किंचित् कृतं न च ।
देहस्वभावजो भावो भवेदस्य निरंतरम् ॥ ४८ ॥
अन्यं मार्गं प्रवक्ष्यामि ये निंदंति स्तुवंति तम् ।
योगिनं पापभोक्तारो भवंति पुण्यभोगिनः ॥ ४९ ॥
योगिना यत् कृतं पापं तत् स्प्रष्टुं न क्षमं कदा ।
निंदकांस्तत् समाश्रित्य प्रतिष्ठेत्तस्य नित्यदा ॥ ५० ॥
योगिना यत् कृतं पुण्यं तदेव तं न संस्पृशेत् ।
स्तुवतस्तान् समाश्रित्य नित्यं तिष्ठेत् स्वभावजम् ॥ ५१ ॥
अतो न योगिनां निंदां कदा कुर्याद्विचक्षणः ।
सेवां समाचरेत्तेषां तेन सौख्ययुतो भवेत् ॥ ५२ ॥
वने यदि स्थितो योगी प्रारब्धेन नियंत्रितः ।
फलादिकं तत्र भुंजन् शांत्या तिष्ठेत् स नित्यदा ॥ ५३ ॥
तत्र निंदाकरास्तस्य तथा सेवाकरा न च ।
एक एव महायोगी शुभाशुभं समाचरेत् ॥ ५४ ॥
तदेव देहपातेऽस्य योगिनश्च मृतं भवेत् ।
शुभाशुभं निराधारमुपोषणसमन्वितम् ॥ ५५ ॥
एतत्ते कथितं दक्ष ब्रह्मीभूतस्य चेष्टितम् ।
कर्म योगमयं पूर्णं श्रवणाच्छुभदं भवेत् ॥ ५६ ॥
अथ योगं प्रवक्ष्यामि ज्ञानात्मकमहं परम् ।
योगिभ्यः सुखदं पूर्णं शांतियुक्तं विशेषतः ॥ ५७ ॥
देहः कर्मात्मकः प्रोक्तस्तत्र योगं समाचरेत् ।
ब्रह्मार्पणतया कर्म चाचरन् शांतिधारकः ॥ ५८ ॥
ज्ञानं स्फूर्तिमयं प्रोक्तं हृदि तिष्ठति सर्वदा ।
विवेकात्ममयं तत्र ज्ञानयोगं समाचरेत् ॥ ५९ ॥
हृदि यद्यद् भवेज्ज्ञानं नानायोगार्थसौख्यदम् ।
अथवा विषयार्थानां बोधकं तत् स संत्यजेत् ॥ ६० ॥
उत्पत्तिनाशसंयुक्तं ज्ञानं विषयबोधकम् ।
ब्रह्म सौख्यप्रदं ज्ञानं योगभूमिप्रभावजम् ॥ ६१ ॥
उपाधिसंयुतं चैकमनुपाधियुतं परम् ।
तत्त्यक्त्वा योगसंयुक्तो भवेद्योगी महायशाः ॥ ६२ ॥
ज्ञानानां सकलानां च योगे ज्ञानमयः स्मृतः ।
योगस्तत्र भवेल्लीनो ब्रह्मीभूतस्वभावतः ॥ ६३ ॥
ब्रह्मणि ब्रह्मीभूतोऽहं मम ज्ञानं कुतो भवेत् ।
नानाभ्रांतिकरं हृत्स्थं त्यक्त्वा ब्रह्मपरो भवेत् ॥ ६४ ॥
अनेन विधिना सर्वं ज्ञानं त्यक्त्वा हृदि स्थितम् ।
शांतियुक्तः स्वयं योगी तिष्ठेद्ब्रह्मपरायणः ॥ ६५ ॥
न कर्ताऽहं कदाचिद्वै कारयिता न निश्चितम् ।

Pageखं. ९ अ. ७ पान २७
मायामोहयुता मां ते वदंति कर्मकारिणम् ॥ ६६ ॥
अहं साक्षी शरीरस्य यद्देहेन कृतं भवेत् ।
तन्मया न कृतं क्वापि ब्रह्माहं परतः परः ॥ ६७ ॥
यद्यत् स्फूर्तिर्भवेन् मे वै सा माया भ्रांतिदायिका ।
न तस्यां संस्थितो जीवः सदा साक्षिस्वभावतः ॥ ६८ ॥
न मोहेन समायुक्तो न कदा मोहवर्जितः ।
मायया मां वदंत्येव ह्ययोगिनो न संशयः ॥ ६९ ॥
एवं सदा महायोगी साक्षिवत्संस्थितो भवेत् ।
हृदयज्ञानयोगस्थस्त्यक्त्वा स्फूर्तिभवं भ्रमम् ॥ ७० ॥
सर्वत्र रसहीनं यन् मनस्तस्य महात्मनः ।
शांत्या युक्तं भवेद्दक्ष ब्रह्मीभूतस्य नित्यदा ॥ ७१ ॥
एष ते कथितो योगो ज्ञानात्मको विशेष?तः ।
साक्षिवद्देहसंस्थः स मया तिष्ठति लेशतः ॥ ७२ ॥
अतः परं समं योगं शृणु स्थितिपरायण ।
यं ज्ञात्वा ब्रह्मभूतो यः शांतिहीनो भवेन्न सः ॥ ७३ ॥
देहः कर्मत्रयस्तत्र कर्मयोगं समाचरेत् ।
मनो विवेकरूपं तु साक्षित्वं तत्र संचरेत् ॥ ७४ ॥
अहं ब्रह्म यदा दक्ष कुतस्तत्र भवेदिदम् ।
द्वंद्वरूपं विशेषेण तस्य वक्ष्यामि रूपकम् ॥ ७५ ॥
देहः कर्ममयः प्रोक्तो विवेकः कर्मवर्जितः ।
द्वंद्वं ज्ञात्वा महायोगी समयोगं समाचरेत् ॥ ७६ ॥
देहे कर्ममयोऽहं तु हृदि साक्षी तथाऽमलः ।
उभयोर्योगभावेन भवति किंचिदंजसा ॥ ७७ ॥
यदा विवेकहीनश्चेत् देहः किं तु करिष्यति ।
देहहीनं मनस्तद्वज्ज्ञानदं कस्य वा भवेत् ॥ ७८ ॥
आनंदमयभावेन संस्थितोऽहं तदात्मकः ।
उभयत्र ततः स्वस्वव्यापारं कुरुतः परौ ॥ ७९ ॥
देहे कर्ममयोऽहं वै हृदि विवेकधारकः ।
द्विविधां रच्यतां मायां सदानंदनधर्मगः ॥ ८० ॥
तयोः समानभावेन संस्थितोऽहं न संशयः ।
अनुपाधेरुपाधेश्च वर्जितो ब्रह्मसंज्ञितः ॥ ८१ ॥
अतः समं समाश्रित्य बाह्यांतरैकभावतः ।
यादृशं संस्थितं ब्रह्म तादृशं तत्र चाचरेत् ॥ ८२ ॥
देहे कर्मकरो भूत्वा हृदि साक्षिमयो भवेत् ।
उभयं तत् परित्यज्यानंदावस्थां समाचरेत् ॥ ८३ ॥
यद्यदुभयभावाख्यं नानाभेदमयं परम् ।
तत्र योगमयो भूत्वा तिष्ठेदानंदसंयुतः ॥ ८४ ॥
आनंदानां समायोगे ब्रह्मानंदः प्रकीर्तितः ।
उभयेषां प्रजानाथ तादृशं चाचरेद्बुधः ॥ ८५ ॥
मदीयसंगयोगेनोभयं प्रवर्तते सदा ।
उभयं चाचरेत् सर्वमुभाभ्यां वर्जितोऽपि सः ॥ ८६ ॥
इयमानंदरूपाख्या कथिता योगिभिः पुरा ।
ब्रह्मीभूतः समास्थाय तिष्ठेत्तां शांतिसंयुतः ॥ ८७ ॥
अतः परं प्रजानाथावस्थां शृणु सुखप्रदाम् ।
सहजाख्यां महायोगी चाचरेत्तां विशेषतः ॥ ८८ ॥
देहः कर्ममयः प्रोक्तस्तत्र योगं समाचरेत् ।
ब्रह्मार्पणतया नित्यं कर्मणां योगिसत्तमः ॥ ८९ ॥
हृदि साक्षिस्वभावेन तिष्ठेत्तयोः परे ततः ।
समभावं समाश्रित्य त्रिषु त्रैधं प्रकीर्तितम् ॥ ९० ॥
तेषु विस्मृतिभावेन भ्रांत्या वा विस्मृतं भवेत् ।
विपरीतं भवेद्वाऽपि ततः खेदं न धारयेत् ॥ ९१ ॥
त्रिविधं मायया युक्तं पराधीनं प्रकीर्तितम् ।
तुर्यं स्वाधीनरूपाख्यं प्रोक्तं शास्त्रेषु सर्वदा ॥ ९२ ॥
तुर्येच्छया त्रिधा भूतं चलत्यत्र न संशयः ।
स्वस्वप्रारब्धसंयुक्तं सदा भ्रांतमिव स्थितम् ॥ ९३ ॥
न कस्याहंकृतिस्तस्य तुरीयस्य कदाचन ।
यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ ९४ ॥
अतः प्रारब्धयोगेन विस्मृतोऽहं स्थितिं पराम् ।
योगरूपां च तुर्येण प्रेरितः सर्वधारिणा ॥ ९५ ॥
अथवा ज्ञानमोहेन विपरीतं कृतं मया ।
त्यक्त्वा योगस्थितिं पूर्णां प्रारब्धं तत्र मुख्यकम् ॥ ९६ ॥
प्रारब्धधारकं प्रोक्तं तुरीयं नात्र संशयः ।
तस्येच्छया च यज्जातं तदेवं योगदं भवेत् ॥ ९७ ॥
पराधीनोऽहमत्यंतं तुर्येच्छया समन्वितः ।
करोमि कर्म? साक्षित्वमानंदं वा न संशयः ॥ ९८ ॥
सदा स्वाधीनभावेन तिष्ठति ब्रह्म तुर्यगम् ।
तुरीयैः खेलकं प्रोक्तं तस्य किं बंधनं भवेत् ॥ ९९ ॥
यज्जातं तत्कृतं तेन तुरीयेण न संशयः ।
तत्र कुत्र स्थितोऽहं तु स्वेच्छया क्रीडति प्रभुः ॥ १०० ॥
इयं तु सहजावस्था कथिता ते प्रजापते ।
यज्जातं तत्र सा प्रोक्ता न कृता तदपि ह्यहो ॥ १०१ ॥
यत्कृतं सह जातेन स्वयमेव प्रवर्तते ।
योगस्तेन समाख्याता सहजा तुर्यसंज्ञिता ॥ १०२ ॥
अतः परं ब्रह्मभूतं स्वानंदाख्यं प्रकीर्तितम् ।
तत्र योगस्वरूपाख्यां स्थितिं शृणु सुखप्रदाम् ॥ १०३ ॥
स्वाधीनं तुर्यभावाख्यं पराधीनं त्रिधा मतम् ।
तेषां योगे निजात्मस्थो भवेद्योगी निजात्मसु ॥ १०४ ॥
त्रिविधं खेलरूपं तु तुर्यः खेलक उच्यते ।
तयोर्योगे प्रजानाथ स्वानंदस्थो भवेन्नरः ॥ १०५ ॥
ब्रह्मणि ब्रह्मभूतस्य योगिनश्च कुतो भवेत् ।
स्वाधीनं तु पराधीनं मायायुक्तं न संशयः ॥ १०६ ॥
योगस्थितिं समाश्रित्य बुधश्चत्वारि चाचरेत् ।
तेषां संयोगरूपेण तिष्ठेत्तेषु महात्मवान् ॥ १०७ ॥
कर्मयोगं समाश्रित्य देहचेष्टां समाचरेत् ।
ज्ञानयोगं तथाऽऽश्रित्य साक्षित्वं चाचरेत् बुधः ॥ १०८ ॥
समयोगं समाश्रित्य आनंदं आचरेत् परम् ।
सहजं स समाश्रित्य विपरीतेन शोकभाक् ॥ १०९ ॥
चतुर्भिः संयुतो भूत्वा चतुभिर्वर्जितस्तथा ।
तिष्ठेद्योगमयीं दक्षावस्थामाश्रित्य सर्वदा ॥ ११० ॥
अवस्था निजरूपे तु कुतोऽवस्थाप्रधारकः ।
तयोर्योगे योगमयी व्यवस्था ते प्रकीर्तिता ॥ १११ ॥
चतुर्मयी चतुर्हीना योगावस्था प्रकीर्तिता ।
योगिभिस्तां समाश्रित्य शांतिहीनो भवेन्न सः ॥ ११२ ॥
अधुना शृणु योगस्थामवस्थां द्वितीयां पराम् ।
अयोगधारिकां पूर्णां सदा निवृत्तिदायिकाम् ॥ ११३ ॥
ब्रह्मणि ब्रह्मभूतो यो योगी तां संश्रयेत् पराम् ।
यदा निवृत्तिसंयुक्तः शांतिहीनो भवेन्न सः ॥ ११४ ॥
ब्रह्मणि ब्रह्मसंस्थं तन्नागतं न गतं पुनः ।
मायायां ब्रह्मभूतो योऽवस्थाया धारकः कुतः ॥ ११५ ॥
यत् कुर्यात् कारयेद्यच्च तत्र नैवावलोकयेत् ।

Pageखं. ९ अ. ७ पान २९
मायामयं विनिश्चित्य पंचकं पंचकेषु गम् ॥ ११६ ॥
नाहं पंचकगश्चेद्वै ततस्तत्कृतमंजसा ।
कुतो मयि प्रदृश्येताधार्यनिवृत्तिगो भवेत् ॥ ११७ ॥
जीवनं मरणं जन्म योगो योगात्मिका परा ।
अवस्था मे कुतो मायामोहयुक्तं स्मृतं बुधैः ॥ ११८ ॥
अथ योगमयीं पूर्णामवस्थां शृणु मानद ।
संयोगायोगहीनां तां यया शांतो भवेन्न सः ॥ ११९ ॥
ब्रह्मणि ब्रह्मभूतोऽहं मयि मायामयं परम् ।
पंचकं च कुतो भाति मायाहीनमयोगकम् ॥ १२० ॥
विधिनिषेधसंयुक्तं चित्तं भवति सर्वदा ।
विधिनिषेधहीनं तु तदेवं जायते मुधा ॥ १२१ ॥
देहेन कर्मयोगश्च ज्ञानगो हृदि जायते ।
उभयत्र समश्चैव तुर्येषु सहजात्मकः ॥ १२२ ॥
सर्वसंयोगभावेषु स्वानंदाख्यः प्रवर्तते ।
निवृत्तिषु ह्ययोगाख्यो योगेषु शांतियोगकः ॥ १२३ ॥
एवं नानाविधं योगं समास्थाय महामतिः ।
योगी शांत्या समातिष्ठेद्ब्रह्मीभूतोऽपि निश्चितम् ॥ १२४ ॥
योगस्थितिः समाख्याता ब्रह्मीभूतसुखप्रदा ।
अनेन विधिना देहनिर्वाहो योगिनां भवेत् ॥ १२५ ॥
वर्णाश्रमस्थितो योगी चाचरेत् स्थितिमुत्तमाम् ।
लोकसंग्रहकार्यार्थमसक्तस्तत्फलादिषु ॥ १२६ ॥
यदा वर्णाश्रमं त्यक्त्वा पंचमाश्रमधारकः ।
न तस्य स्थितिरूपं तु कदाचिन्नात्र संशयः ॥ १२७ ॥
विधिनिषेधहीनोऽयं विनायको भवेत् सदा ।
यद्यत् कुर्यात् स तत् सर्वं योगरूपं भवेत् सदा ॥ १२८ ॥
यदि स्थितिसमायुक्तो वेदादिषु प्रमाणतः ।
तदा विधियुतः सोऽपि भवेत् पश्य प्रजापते ॥ १२९ ॥
यदा स्थितिविहीनोऽयं तिष्ठेत् संकथितं परम् ।
वेदेषु स निषेधेन तदा युक्तो भवेत् परः ॥ १३० ॥
अतः स्थितियुतो योगी स्थितिहीनो यथारुचि ।
वर्णाश्रमान् परित्यज्य तिष्ठेद्विनायको यथा ॥ १३१ ॥
शांत्या नित्यं चरेत् सर्वं मनसीप्सितमंजसा ।
विधिनिषेधहीनश्च ब्रह्मणि रसधारकः ॥ १३२ ॥
एतत् सर्वं समाख्यातं योगिनां चेष्टितं महत् ।
ब्रह्मभूतात् परं पूर्णं चरेदेवं निरंतरम् ॥ १३३ ॥
शृणुयाद्यः पठेद्वाऽपि स सर्वं हीप्सितं लभेत् ।
अंते योगमयो भूत्वा तिष्ठेत् स गणपे रतः ॥ १३४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामतार्थशास्त्रे
योगस्थितिवर्णनयोगो नाम सप्तमोऽध्यायः ॥

॥ इति योगगीतासूपनिषत्सु सुगमासु तृतीयोऽध्यायः ॥