॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
धन्योऽहं कृतकृत्योऽहं कृतस्त्वया महामुने ।
येन गणेशमाहात्म्यं श्रावितं योगदायकम् ॥ १ ॥
गणेशगीतासारादि कथितं तु विशेषतः ।
ज्ञानं योगप्रदं पूर्णं संक्षेपेण त्वया परम् ॥ २ ॥
तन्न बुद्धं मया सर्वमतः सौलभ्यतो वद ।
योगं क्रमयुतं पूर्णं येन योगी नरो भवेत् ॥ ३ ॥
सूत उवाच ।
एवं पृष्टो महायोगी मुद्गलस्तमुवाच यत् ।
हर्षेण महता युक्तस्तत्तेऽहं कथयामि तु ॥ ४ ॥
मुद्गल उवाच ।
धन्योऽसि कृतकृत्योऽसि साक्षाद्गणपतेः किल ।
विभूतिवाचकस्तत्र न चित्रमिदमुत्तमम् ॥ ५ ॥
त्वया पृष्टं महाभाग लोकोपकारकारकम् ।
सर्वेषां सुलभत्वेन योगशांतिपदप्रदम् ॥ ६ ॥
कथयामि च ते प्रीत्या गुह्यं वेदरहस्यकम् ।
शृणुष्वैकमना दक्ष योगं शांतिप्रदायकम् ॥ ७ ॥
चित्तं पंचविधं प्रोक्तं तेषु पंचविधो रसः ।
सरसं चित्तमुत्सृज्य योगी भवति मानवः ॥ ८ ॥
क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
चित्तं पंचविधं विद्धि जगत्सु ब्रह्मसु स्थितम् ॥ ९ ॥
व्यष्टिभावे स्थिता ये तु जंतवो विविधात्मकाः ।
लक्षचतुरशीतिषु योनिषु संभवाः किल ॥ १० ॥
देहभोगादिमार्गेषु कुशलाः संभवंति ये ।
तेषु स्वस्वप्रपंचेषु नानाकार्यपरायणाः ॥ ११ ॥
तैः क्षिप्तं कार्यसिद्ध्यर्थं चित्तं कार्येषु नित्यदा ।
तत्तत्कार्यप्रकाशेन प्रकाशयति तान् हृदि ॥ १२ ॥
तेन कार्येषु दक्षास्ते भवंत्यत्र न संशयः ।
तदेव क्षिप्तसंज्ञं त्वं चित्तं जानीहि मानद ॥ १३ ॥
केचित् स्वल्पज्ञकास्तेषु केचिज्ज्ञानाधिका मताः ।
मध्यमाः केचिदेवं तु नानाभेदाश्रिता नराः ॥ १४ ॥
त्रिविधेषु विभागेषु स्थिता नानाविभेदतः ।
नानाज्ञानयुतास्तेषां रूपं न कथितुं क्षमम् ॥ १५ ॥
लक्षचतुरशीतिषु जंतवो विविधात्मकाः ।
व्यष्टिस्थाः सर्वकार्येषु ज्ञानहीना भवंति ये ॥ १६ ॥
ते मूढाः कथ्यते लोकैर्विषये चतुरैः सदा ।
तेषु नानाविधा भेदा अल्पाधिकसुमध्यमाः ॥ १७ ॥
तेषां प्रकाशकं चित्तं नानामूढस्वभावगम् ।
तदेव मूढसंज्ञाख्यं चित्तं ज्ञातव्यमंजसा ॥ १८ ॥
परैः संबोधितो जंतुर्न बुबोध विचारतः ।
कार्यं नानाविधं तस्य चित्तं मूढं प्रकीर्तितम् ॥ १९ ॥
व्यष्टिस्था ये नरा दक्ष स्वधर्मनिरताः सदा ।
नानातपःपरा भूत्वा मुक्तिमिच्छंति शाश्वतीम् ॥ २० ॥
विषयेषु विरज्यैव सदा ब्रह्मपरायणाः ।
कुर्वंति विविधं कर्माऽहर्निशं मुक्तिकारणात् ॥ २१ ॥
तदपि ब्रह्म हृदये न दृष्टं तैर्महात्मभिः ।
न संसारसुखे चित्तं तेषां रमति कर्हिचित् ॥ २२ ॥
अतो विक्षिप्तचित्तास्ते मता योगिजनैः पुरा ।
ब्रह्मार्पणक्रियाः सर्वाः कुर्वंत्यंतरबाह्यजाः ॥ २३ ॥
विशेषेणैव क्षिप्तोऽहं संसारे मायया सदा ।
विगतक्षेपणं सर्वे नानासाधनभावतः ॥ २४ ॥
तेषां मुक्त्यर्थमत्यंतं प्रकाशयति भावनाम् ।
चित्तं क्रियात्मि?कां तेन विक्षिप्तं तत्प्रकीर्तितम् ॥ २५ ॥
तत्र नानाक्रियायाश्च सामर्थ्येन विमोहितः ।
जानाति देवतां तुष्टां ममोपरि न संशयः ॥ २६ ॥
कदा देवप्रसादादि गृह्य विक्षेपसंयुतः ।
अनाधारां क्रियां कुयोद्देवाज्ञावशगो मुधा ॥ २७ ॥
स्वप्नेषु विविधान् भावान् पश्यति तद्गतचेतसा ।
सत्यं स्वप्नं मदीयं तु मान्यं तादृशजं चरेत् ॥ २८ ॥
एवं विक्षिप्तभावेन मोहितः स कदाचन ।
अनाधारं करोत्येव नानातपःप्रभावतः ॥ २९ ॥
समष्टिव्यष्टिसंस्थं यच्चित्तं वैराटगं परम् ।
तेन व्यष्टिं समाव्याप्य भुंक्ते स विविधं सुखम् ॥ ३० ॥
वैराटस्य क्रिया प्रोक्ता व्यापिका शास्त्रसंमते ।
तत्र व्यापकभावस्य चित्तं प्रकाशदं मतम् ॥ ३१ ॥
तत्त्वेषु विविधेष्वेव स्थूलसूक्ष्मादिगेषु च ।
व्यापकभावकाशत्वाच्चित्तं तेषु स्थितं मतम् ॥ ३२ ॥
समष्टिव्यष्टिसंयोगेऽन्नं ब्रह्म स्थूलगं परम् ।
तथा स्वप्नगतं सूक्ष्मं सौषुप्तं समसंस्थितम् ॥ ३३ ॥
चेतनाभावगं पूर्णं तद्वन्नादात्मकं मतम् ।
अस्मिताख्यं परं ब्रह्म तेषु चित्तं प्रकीर्तितम् ॥ ३४ ॥
समष्टिव्यष्टिभागस्य तयोरैक्यस्य च प्रभो ।
प्रकाशकारकं विद्धि चित्तमेकाग्रसंज्ञितम् ॥ ३५ ॥
समष्टिव्यष्टिभावेषु न भिन्नं भवतीत्यहो ।
तेनैकाग्रं समाख्यातं चित्तं तज्ज्ञानकारकम् ॥ ३६ ॥
देहश्चतुर्विधः प्रोक्तः स्थूल: सूक्ष्मः समात्मकः ।
अस्मिताख्यश्चतुर्थश्च तेषु देही स्थितो मतः ॥ ३७ ॥
देहेषु मोहितो देही जीव इत्यभिधीयते ।

Pageखं. ९ अ. ५ पान १५
मोहहीनः स एवाऽपि शिवः प्रोक्तो मनीषिभिः ॥ ३८ ॥
जीवशिवात्मिका संज्ञा देहिनो भ्रममात्रतः ।
सदैकात्मस्वभावत्वात्तत्र भेदो न विद्यते ॥ ३९ ॥
तत्र जीवशिवाकारभावप्रकाशकारकम् ।
चित्तमेकाग्रसंज्ञाख्यं तिष्ठति देहिसंश्रितम् ॥ ४० ॥
सास्मिताच्च परं चित्तमेकाग्रं विद्यते न वै ।
देहदेहिमयं चित्तमेकाग्रं योगिनां मते ॥ ४१ ॥
चतुर्णां वपुषां यत्र ब्रह्माकारेण जायते ।
संयोगो बिंदुरूपं तज्ज्ञातव्यं ब्रह्म सर्वगम् ॥ ४२ ॥
चतुष्पदं बुधैः प्रोक्तं चतुर्भिर्वर्जितं सदा ।
देहानां ब्रह्म विख्यातं नानादेहस्वभावगम् ॥ ४३ ॥
तत्र चतुष्पदाकारभावप्रकाशकारकम् ।
चतुर्भिर्वर्जितस्यैव चित्तं तिष्ठति तद्गतम् ॥ ४४ ॥
देहेषु न भवेद्भिन्नं सर्वगमात्मभावतः ।
निरोधं कथ्यते चित्तं बिंदुधर्मप्रकाशकम् ॥ ४५ ॥
जीवशिवात्मभावस्थं मोहहीनं सदात्मगम् ।
ब्रह्म सोऽहं समाख्यातं सदा भ्रांतिविवर्जितम् ॥ ४६ ॥
तत्र जीवशिवाकारमोहहीनप्रकाशकम् ।
चित्तमात्मस्वरूपस्थं निरोधं कथ्यते बुधैः ॥ ४७ ॥
देहदेहिसमायोगे स्वत उत्थानमुच्यते ।
बोधाख्यं द्वंद्वभावेन ब्रह्म खेलकरं सदा ॥ ४८ ॥
तत्र निरोधकं चित्तं तस्य रूपं वदाम्यहम् ।
संक्षेपेण प्रजानाथ शृणु भावसमन्वितः ॥ ४९ ॥
बाह्यं स्थूलं समाख्यातमांतरं सूक्ष्मगं मतम् ।
बाह्यांतरैकभावस्थमानंददेहगं परम् ॥ ५० ॥
त्रिभिर्हीनं त्रयाणां च चालकं ह्यस्मितात्मकम् ।
अहमानुभवेनैतज्ज्ञातव्यं योगिनां हृदि ॥ ५१ ॥
तेषां संयोगभावे यच्चतुर्णां वपुषां परम् ।
सर्वात्मकं भवेद्ब्रह्म पंचमं बिंदुसंज्ञितम् ॥ ५२ ॥
चतुर्विधा नरस्यैव कल्पना हृदि संस्थिता ।
अतः परं न भेदोऽस्ति भवेद्येनास्य कल्पना ॥ ५३ ॥
बिंदुत्यागे निरालंबं चित्तं भवति सर्वदा ।
सततं तत् समाख्यातं ब्रह्म ध्यातृविहीनतः ॥ ५४ ॥
न किंचिज्ज्ञायते यत्र भेदहीनप्रभावतः ।
सोहं मात्रात्मकं चित्तं निरालंबसमाधिदम् ॥ ५५ ॥
अवलंबनगं चित्तं चतुर्धा देहिसंश्रितम् ।
अवलंबनहीनं तद्देहिगं चिन्मयं भवेत् ॥ ५६ ॥
निरालंबपरित्यागेऽधिकसंरोधनं भवेत् ।
चित्तस्य देहदेहिभ्यां हीनत्वान्नात्र संशयः ॥ ५७ ॥
मनोवाणीविहीनं तच्चित्तं ज्ञातव्यमादरात् ।
अस्तिनास्तिविहीनत्वादाधाराधेययोगतः ॥ ५८ ॥
अवलंबनयोगो न पंचधा योगिनां हृदि ।
निरालंबनकं तस्मान् मनोवाणीविवर्जितम् ॥ ५९ ॥
बोधेन बुद्ध्यते सर्वं निरालंबं समाधिना ।
अवलंबनकं तद्वद्बोधबोधो न विद्यते ॥ ६० ॥
एवं बोधात्मकं ब्रह्म देहदेहिसमाधिदम् ।
देहदेहिसमायोगप्रकाशं चित्तमुच्यते ॥ ६१ ॥
देहसौख्यं प्रजानाति देहिसौख्यं निरंतरम् ।
तयोर्योगे च यत् सौख्यं जानाति ब्रह्म बोधगम् ॥ ६२ ॥
पदानां बोधभावेन पदार्थानां विशेषतः ।
उत्थानं जायते तस्मात् स्वत उत्थानमुच्यते ॥ ६३ ॥
सुखं ज्ञात्वा समुत्थानं स्वयमेव करोति यः ।
देहदेहि च सृष्ट्वा स खेलति ब्रह्मतत्परः ॥ ६४ ॥
तत्रोत्थानप्रकाशाख्यं चित्तं निरोधसंज्ञकम् ।
तिष्ठत्यत्र न संदेहो ज्ञातव्यं योगिनां हृदि ॥ ६५ ॥
बोधत्यागे समाख्यातं ब्रह्म सांख्यं प्रजापते ।
कः संख्यां कुरुते तस्य बोधनाशप्रभावतः ॥ ६६ ॥
उत्थानवर्जितं ब्रह्म सांख्यं साक्षिस्वभावगम् ।
बोधहीनात् कदा तत्रोत्थानं नैव प्रजापते ॥ ६७ ॥
प्रकृतिसंभवं बोधं तयोः पुरुषसंभवम् ।
योगसौख्यं न जानाति सांख्यं बोधविहीनतः ॥ ६८ ॥
बुद्ध्वा सुखं नरस्यैवोत्थानं यथा प्रजापते ।
तथा मायासुखं ज्ञात्वा ब्रह्मणोत्थानकं भवेत् ॥ ६९ ॥
तथा परत उत्थानं सांख्ये नित्यं प्रतिष्ठितम् ।
तत्र योगं प्रवक्ष्यामि येन योगी नरो भवेत् ॥ ७० ॥
यद्युत्थानसमायुक्तं भवति चेत्तदा भवेत् ।
उत्थानवर्जितं दक्ष तदेवं बीजमाद्यकम् ॥ ७१ ॥
उत्थानहीनभावेन सदा सांख्यं विराजति ।
स्वयं च स्वत उत्थानं निःसृतं तत् प्रभावतः ॥ ७२ ॥
सांख्येन न कृतं चैतत्तथाप्युत्थानहीनतः ।
स्वयं च स्वत उत्थानं जायते नात्र संशयः ॥ ७३ ॥
यदाऽनृतं भवेद्दक्ष तदा सत्यं प्रकीर्त्यते ।
एकं ब्रह्म यदा तिष्ठेत् सत्यं तत् केन कथ्यते ॥ ७४ ॥
न दृष्टमनृतं येन न जानाति स सत्यकम् ।
सदा तादृशरूपत्वादेकभावप्रदर्शनात् ॥ ७५ ॥
अत उत्थानहीनत्वं धृतं तेन विशेषतः ।
स्वत उत्थानभावाख्यं स्वयमेवोपजायते ॥ ७६ ॥
न कृतं तेन सांख्येन स्वयमेव विनिःसृतम् ।
अतः परत उत्थानं प्राप्तं तत्र न संशयः ॥ ७७ ॥
संख्याहीनप्रकाशाख्यं चित्तं तत्र प्रवर्तते ।
बोधहीनप्रकाशेन ज्ञायते तन्निरोधकम् ॥ ७८ ॥
उत्थानेन युतं ब्रह्म बोधमयं प्रकीर्तितम् ।
सांख्यमुत्थानहीनं च तयोर्योगे निजात्मकम् ॥ ७९ ॥
स्वतः परत उत्थानं तत्र नैव प्रजापते ।
जगतां ब्रह्मणां योगे भवति स्वस्वरूपकम् ॥ ८० ॥
स्वस्वरूपात् परो नास्ति संयोगः तन्मयः कदा ।
स समाधिः समाख्यातो ब्रह्मण्यस्यान्वयात्मकः ॥ ८१ ॥
स्वकीयाभेदभावस्य तत्र प्रकाशकारकम् ।
चित्तं निरोधसंज्ञं तु तिष्ठत्यत्र न संशयः ॥ ८२ ॥
संयोगः पंचधा दक्ष भवति शृणु रूपकम् ।
तस्य भिन्नं प्रवक्ष्यामि लोकानां हितकारणात् ॥ ८३ ॥
एते भेदाः समाख्याता योगेन लयतां ययुः ।
स्वसंवेद्येन संदेहस्तेन सृष्टाश्च पालिताः ॥ ८४ ॥
एतेषां रूपमास्थाय खेलति स्वस्वरूपकम् ।
नानालीलाकरं प्रोक्तं तदेवं वेदवादिभिः ॥ ८५ ॥
उत्पत्तिनाशसंयुक्ता भेदा एते मनीषिभिः ।
तेषां निजस्वभावत्वादसत्स्वानंद उच्यते ॥ ८६ ॥
तद्ब्रह्म शक्तिरूपाख्यं ज्ञातव्यं भेदधारणात् ।
तत्रासत्काशभावेन चित्तं तिष्ठति निश्चितम् ॥ ८७ ॥
एतैर्भेदैर्विहीनं यदमृतं ब्रह्म कथ्यते ।
एतेषां जीवनं नित्यं तच्च सत्स्वस्वरूपकम् ॥ ८८ ॥
तद्ब्रह्म सौरमाख्यातं भेदहीनप्रभावतः ।
तत्र नित्यस्य काशाख्यं चित्तं निरोधकं मतम् ॥ ८९ ॥

Pageखं. ९ अ. ५
असत् सत् द्विविधं प्रोक्तं तयोर्योगे समात्मकम् ।
स्वसंवेद्यं परं ब्रह्म विष्णुर्द्वंद्वप्रवेशनात् ॥ ९० ॥
तत्रानंदप्रकाशाख्यं चित्तं निरोधसंज्ञितम् ।
तिष्ठते तेन योगींद्रास्तं गच्छंति समाधिना ॥ ९१ ॥
त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं नेति कारकम् ।
मोहहीनप्रभावेण तुरीयं ब्रह्म कथ्यते ॥ ९२ ॥
तदेव शिवसंज्ञाख्यं ज्ञातव्यं योगसेवया ।
तत्र नेति प्रकाशाख्यं चित्तं तिष्ठति तद्गतम् ॥ ९३ ॥
त्रिविधं मोहसंयुक्तं मोहहीनं चतुर्थकम् ।
तेषां संयोगभावे वै स्वसंवेद्यं प्रकीर्तितम् ॥ ९४ ॥
पूर्णसंयोगभावाख्यं पंचमं ब्रह्म तत् स्मृतम् ।
तस्मात् परो न संयोगः कथ्यते योगिभिः सदा ॥ ९५ ॥
स एव गणनाथस्तु स्वानंदाख्यः प्रकीर्तितः ।
तत्र निजप्रकाशाख्यं चित्तं तिष्ठति सर्वगम् ॥ ९६ ॥
अतः परमयोगाख्यं ब्रह्म मायाविवर्जितम् ।
तदेव योगिभिः प्रोक्तं निवृत्तिसुखदायकम् ॥ ९७ ॥
न तत्र जगतां दक्ष ब्रह्मणां योग उच्यते ।
तस्याऽपि तेषु तद्वच्च तेनायोग इति स्मृतः ॥ ९८ ॥
ब्रह्मणि तन्मयत्वेन स्वस्य संयोग उच्यते ।
तस्मान्निवृत्तिरापन्ना तेन निवृत्तिसंज्ञकम् ॥ ९९ ॥
स्वसंवेद्यस्य नाशेन लभ्यते ह्यसमाधिना ।
नाऽगतं न गतं ब्रह्म संयोगः कुत्र जायते ॥ १०० ॥
तत्रायोगप्रकाशाख्यं चित्तं निरोधसंज्ञितम् ।
तिष्ठति चापवादेषु निवृत्तिसुखदायकम् ॥ १०१ ॥
इदं पंचविधं चित्तं कथितं ते प्रजापते ।
जगत्सु ब्रह्मसु तज्ज्ञं नानाप्रकाशदायकम् ॥ १०२ ॥
भूमयः पंच विख्याताश्चित्तस्य विविधात्मनः ।
भूमीनां त्यागभावे तच्चित्तं ब्रह्ममयं भवेत् ॥ १०३ ॥
अतः पंचविधं चित्तं त्यज त्वं योगसेवया ।
योगी भविष्यसि दक्ष चिंतामणौ न संशयः ॥ १०४ ॥
संयोगायोगसंज्ञस्थं निरोधाख्यं मतं बुधैः ।
अतः परो निरोधो न विद्यते सर्वसंमते ॥ १०५ ॥
सार्वभौमात्मधर्मेण योगी भवति मानवः ।
तत्र शांतिं लभेच्चित्तं त्यक्त्वा भूमिभवं भ्रमम् ॥ १०६ ॥
योगरूपे सुखं यद्वै योगिनां हृदि वर्तते ।
तदेव कथितुं दक्ष शक्यते न कदाचन ॥ १०७ ॥
मनोवाणीमयं चित्तं चतुर्विधं प्रकीर्तितम् ।
मनोवाणीविहीनं तु निरोधसंज्ञकं मतम् ॥ १०८ ॥
अतो योगः समाख्यातो मनोवाणीमयो न च ।
मनोवाणीविहीनोऽपि कथ्यते नैव योगिभिः ॥ १०९ ॥
कीदृशं ब्रह्म तत्राहं योगेन कीदृशेन च ।
ब्रह्मभूतः स्वयं जात एभ्यः शांतिं लभेन्नरः ॥ ११० ॥
योगे योगी नरो जातस्तत्र न ज्ञायते कदा ।
ब्रह्म वा साधनं किंचिद्ब्रह्मभूतस्य कारकम् ॥ १११ ॥
तन्मयत्वं ब्रह्मणि न न च तन्मयवर्जनम् ।
अतः शांतिं समागृह्य शांतियोगपरो भवेत् ॥ ११२ ॥
पंचविधेषु चित्तेषु दृश्यते जगतां परम् ।
ब्रह्मणामैश्वरं सौख्यं रसं तत्र न धारयेत् ॥ ११३ ॥
नानारसविहीनं तु चित्तं कृत्वा प्रजापते ।
तत्त्यक्त्वा स भवेद्योगी शांत्या शांतिमवाप्नुयात् ॥ ११४ ॥

Pageखं. ९ अ. ६ पान १८
स्रोतसोर्णवमानंदाद्गच्छंत्यप्रेरितान्यपि ।
प्रारब्धेन तथा कामान् भुनक्ति योगिसत्तमः ॥ ११५ ॥
नानाद्वंद्वविहारेषु समभावपरायणः ।
योगी भवति शांत्या च सदा योगसुखे रतः ॥ ११६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे
चित्तभूमिनिरोधेन सार्वभौमयोगो नाम पंचमोऽध्यायः ॥
॥ इति योगगीतासूपनिषत्सु सुगमासु प्रथमोऽध्यायः ॥