॥ मुद्गल पुराण खण्ड १ ॥

॥ अथ श्रीमुद्गलपुराणे प्रथमः खंडः प्रारभ्यते ॥

Pageखं. १ अ. १ पान १
॥ ॐ नमः श्रीस्वानंदेशगणेशाय पूर्णयोगात्मने ॥

॥ श्रीगणेशाय नमः ॥
अथ श्रीमन्मौद्गलपुराणप्रारंभः ।
ध्याये स्थिरेण चित्तेन गणेशं सर्वसिद्धिदम् ।
बुद्धिप्रकाशकं पूर्णं योगिनां हृदि संस्थितम् ॥ १ ॥
जितं तेनाखिलं नानाब्रह्मवर्णनवर्णितम् ।
नानाजगत्समूहं वै गणेशेनोभयं कृतम् ॥ २ ॥
भक्तसंरक्षणार्थाय निर्गुणः सगुणस्तु यः ।
नानावतारवान्सोऽपि नानाभेदधरो बभौ ॥ ३ ॥
तस्मै नमो गणेशाय नरकुंजररूपिणे ।
सगुणो नररूपो यो निर्गुणो गजवक्त्रकः ॥ ४ ॥
नमः शिवाय शांताय विष्णवे प्रभविष्णवे ।
सूर्याय शक्तये चैव चतुर्धा ते विभागिने ॥ ५ ॥
ब्रह्माणं शेषनागं च नरं नारायणं सदा ।
नमामि भावयुक्तोऽहं पुराणपुरुषं परम् ॥ ६ ॥
देवानां योगिनां चैव महर्षीणां महात्मनाम् ।
व्रजामि शरणं नित्यं पुराणज्ञानसिद्धये ॥ ७ ॥
पुराकल्पेऽभवन्विप्राः शौनकाद्याः सुसाधनाः ।
कलिदोषभयात्सर्वे नैमिषारण्यमाश्रिताः ॥ ८ ॥
तस्मिन्कलियुगावासं ज्ञात्वादौ ब्रह्मणो मुखात् ।
मुनिधर्मप्रसिद्ध्यर्थं कर्मज्ञान प्रसिद्धये ॥ ९ ॥
अन्यच्च ब्रह्मणा प्रोक्तं पुराणश्रवणं सदा ।
कलिदोषहरं पुण्यं तदर्थमभवन्यताः ॥ १० ॥
कस्मिंश्चित्समये सूतो लोमहर्षण आययौ ।
मुनीनां दर्शनार्थाय पुराणज्ञो विचक्षणः ॥ ११ ॥
नैमिषारण्यशोभां च पश्यंस्तत्र सुविस्मितः ।
अहो धन्यं महारण्यं कलिदोषविवर्जितम् ॥ १२ ॥
दृष्टा वै मुनयस्तेन सुप्रसन्नाननाम्बुजाः ।
नित्यनैमित्तिककराः स्वधर्माचरणप्रियाः ॥ १३ ॥
पंचयज्ञरतास्तत्र वेदाध्ययनकारिणः ।
ब्रह्मतेजःसमायुक्ता ज्वलन्तः पावका इव ॥ १४ ॥
विनाऽस्तेन यथा सूर्यो योगिनो वेदवेदिनः ।
तारकाः सर्वजन्तूनां शौनकाद्या महर्षयः ॥ १५ ॥
तत्रागत्य महाभागः स सूतो रोमहर्षणः ।
साष्टाङ्गं प्रणतः पूर्वं परमाह्लादसंयुतः ॥ १६ ॥
अभिवाद्य मुनीन्सर्वान्भक्त्या नम्रात्मकन्धरः ।
प्राञ्जलिः प्रयतो भूत्वा प्रोवाच मधुरं वचः ॥ १७ ॥
सूत उवाच ।
वंशो धन्यो मदीयोऽद्य पितरौ च कुलं वयः ।
विद्या व्रतं तपो ज्ञानं धन्यं सर्वं मुनीश्वराः ॥ १८ ॥
भवतां पादपद्मं च सर्वाशुभविनाशनम् ।
काङ्क्षितं यत्सदा देवैर्मया दृष्टं सुपुण्यतः ॥ १९ ॥
साक्षाद् ब्रह्मस्वरूपा वै ब्राह्मणा ब्रह्मवित्तमाः ।
येषां दर्शनमात्रेण कृतकृत्याश्च जन्तवः ॥ २० ॥
कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं न संशयः ।

Pageखं. १ अ. १ पान २
भवतां दर्शनेनैव मुक्तोऽहं भवसागरात् ॥ २१ ॥
इति ब्रुवाणं साधुं तं सूतं वै रोमहर्षणम् ।
प्रत्यूचुर्ब्राह्मणाः सर्वे भक्तियुक्तं तपोधनाः ॥ २२ ॥
ब्राह्मणा ऊचुः ।
सूत सूत महाभाग स्थीयतां पुण्यवर्धन ।
तव दर्शनमात्रेण संतुष्टाः स्मो वयं खलु ॥ २३ ॥
इत्युक्तस्तत्र सूतस्तु मुनिदत्ते शुभासने ।
समासीनो महाबुद्धिः साञ्जलिः सन्प्रतापवान् ॥ २४ ॥
सुखासीनं च सूतं तं दृष्ट्वा तत्र महामुनिः ।
भृगुप्रेष्ठश्च मुख्योऽसौ मुनीनां प्रत्युवाच ह ॥ २५ ॥
शौनक उवाच ।
सूत सूत महाभाग सर्वज्ञ सुखदायक ।
आराधितस्त्वया प्राज्ञः कृष्णद्वैपायनो महान् ॥ २६ ॥
नारायणावतारो यः साक्षान्नारायणः स्वयम् ।
वेदस्य भागकारी स पुराणानां विभागकृत् ॥ २७ ॥
त्वं वै तस्मात्पुराणानि सेतिहासानि वेत्सि च ।
तेन सर्वज्ञता जाता तवेयं पुण्यवर्धन ॥ २८ ॥
वयं भीताश्च कालेन कलिकल्मषरूपिणा ।
नैमिषारण्यमास्थाय स्थिताज्ञप्ताः स्वयंभुवा ॥ २९ ॥
तत्र विश्रान्तिदाता वै त्वं प्राप्तोऽसि महाद्युतिः ।
पुराणानां प्रवक्ता च पुण्यवान्पुण्यवर्धनः ॥ ३० ॥
यत्र पौराणिकी गाथा कलिस्तत्र न तिष्ठति ।
तस्मात्कारुण्यभावेन पुराणं ब्रुहि नः प्रभो ॥ ३१ ॥
तव यद्दर्शनं जातं महापुण्येन सत्तम ।
धन्यं धन्यं महाभाग साक्षात्संशयछित्स्वयम् ॥ ३२ ॥
छेदेन संशयानां वै सतां त्वं रोमहर्षणम् ।
करोषि तेन ते नाम रोमहर्षण इत्यहो ॥ ३३ ॥
इति पृष्टो महात्मा स शौनकेन महर्षिणा ।
संहृष्टः सन्नुवाचेदं वचनं धर्मसंस्कृतम् ॥ ३४ ॥
सूत उवाच ।
अद्याऽहं कृतकृत्यो वै कृतोऽनुग्रहकारिणा ।
सकलं कथयिष्यामि व्यासेन कथितं च यत् ॥ ३५ ॥
इत्युक्त्वा कथयामास पुराणानि स कृत्स्नशः ।
नानाख्यानविभक्तानि नानाधर्मयुतानि च ॥ ३६ ॥
सर्वार्थसाधनान्येव दुःखनाशकराणि च ।
ब्रह्मभूतप्रदान्येव नानामतयुतानि च ॥ ३७ ॥
पुराणोपपुराणानि सेतिहासानि भागशः ।
धर्मार्थकाममोक्षाणां दातृत्वात्पुण्यदानि च ॥ ३८ ॥
श्रुत्वा श्रुत्वा मुनीन्द्रास्ते हर्षयुक्ता बभूविरे ।
नित्यं प्रमुदितास्तेन प्रीताः संपूर्णभावतः ॥ ३९ ॥
युगस्योत्क्रमणं तस्य चक्रुस्ते मुनयोऽखिलाः ॥ ४० ॥
पुराणेषु च सर्वेषु सेतिहासेषु सर्वतः ।
नानाभेदमतादीनि श्रुत्वा भ्रान्ता मुनीश्वराः ॥ ४१ ॥
निश्चयं नाधिगच्छन्ति परं किं सर्वसंमतम् ।
तदर्थंं मुनिवर्यस्तं पर्यपृच्छत्स शौनकः ॥ ४२ ॥
शौनक उवाच ।
भो भो सूत महाभाग शृणु मे वचनं लघु ।
पुराणानि च संश्रुत्य भ्रान्ताः स्मो वै महाद्युते ॥ ४३ ॥
इदं परमिदं नेति त्वया सर्वत्र वर्णितम् ।
भिन्नं भिन्नं महाबुद्धे तेन नो निश्चयः कथम् ॥ ४४ ॥
कुत्रापि शंकरः श्रेष्ठः कुत्र विष्णुस्तथा रविः ।
शक्तिश्चैव गणेशश्च विराजः कुत्र रूपकम् ॥ ४५ ॥
कुत्र ब्रह्म च योगश्च ज्ञानं कर्म च कुत्र वै ।
आत्मा प्राणोऽन्नमित्युक्तं मनो वै परतः परम् ॥ ४६ ॥
कुत्र बुद्धिर्महाभाग सांख्यं स्वानंद एव च ।

Pageखं. १ अ. २
इत्यादिमतभेदेन निश्चयो नैव जायते ॥ ४७ ॥
अतस्त्वं कृपया ब्रूहि वेदशास्त्रार्थ संमतम् ।
सर्वेषां मान्यमेकं च सर्वसंशयनाशनम् ॥ ४८ ॥
इति पृष्टो महातेजाः शिष्यो व्यासस्य सत्तमः ।
एकं श्रुतिस्मृतीनां यत् सारं कथितुमारभत् ॥ ४९ ॥
सूत उवाच ।
शृणुध्वं मुनयः सर्वे सारं मुद्गलभाषितम् ।
सर्वश्रुतिस्मृतीनां च सर्वमान्यं विशेषतः ॥ ५० ॥
पुरा दक्षाध्वरे जातं यज्ञविध्वंसनं महत् ।
रुद्रेणागत्य सहसा कृतो विघ्नो महत्तरः ॥ ५१ ॥
देवाः पराजिताः सर्वे रुद्रैः परमदारुणैः ।
दक्षमस्तकसंछेदो वीरभद्रेण वै कृतः ॥ ५२ ॥
ब्रह्मणागत्य तत्रासौ सान्त्वितो बहुलोक्तिभिः ।
शंकरो जीवयामास दक्षं योगेन तत्त्वतः ॥ ५३ ॥
यज्ञविध्वंसशोकार्तो दक्षः शापेन मोहितः ।
अज्ञानावरणेनापि न किञ्चिन्निश्चयं ययौ ॥ ५४ ॥
तत्राजगाम भगवान् साक्षात्सूर्य इवोदितः ।
वेदशास्त्रार्थतत्त्वज्ञो योगीन्द्रो मुद्गलो मुनिः ॥ ५५ ॥
गणेशभक्तप्रवरः सर्ववंद्यो महायशाः ।
तपसां कर्मणां साक्षान्निधिरेष सनातनः ॥ ५६ ॥
तं दृष्ट्वोत्थाय दक्षोऽसौ प्रणनाम महामुनिम् ।
आसनाद्यैः सुसंपूज्य वक्तुं समुपचक्रमे ॥ ५७ ॥
दक्ष उवाच ।
भो भो मुनीन्द्र वन्द्यस्त्वमांगिरस महाद्युते ।
यज्ञविध्वंसशोकार्तं मां पालय जडीकृतम् ॥ ५८ ॥
मुद्गल उवाच ।
मा चिन्तां कुरु भो दक्ष प्रजापालेन्द्रसत्तम ।
विघ्नराजं स्मर त्वं वै तेन सर्वं न दुर्लभम् ॥ ५९ ॥

॥ ॐ तत्सदिति श्रीमदा‌ंन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
प्रथमे खण्डे वक्रतुंडचरिते शौनकसूतसंवादो नाम प्रथमोऽध्यायः ॥